________________
५५२
सीया उण्हा य बोधव्वा, निद्धा लुक्खा तहेव य ।
इइ फासपरिणया, पुग्गला समुयाहिया ॥२०॥
व्याख्या - शीता मृणालादिवत्, उष्णा वह्न्यादिवत्, स्निग्धा घृतादिवत्, रूक्षा भूत्यादिवत्, इतीत्यमुना प्रकारेण स्पर्शपरिणता एते स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः समुदाहृताः सम्यगुक्ता जिनैः ॥२०॥
संठाणपरिणया जे उ, पंचहा ते वियाहिया । परिमंडला य वट्टा, तंसा चउरंसमायया ॥२१॥
व्याख्या - सन्तिष्ठन्त्यत्र स्कन्धा देशाश्चेति संस्थानानि आकारास्तैः परिणता ये तु पुद्गलास्ते पञ्चधा व्याख्याताः परिमण्डलं मध्यसुषिरं वृत्तं मध्याऽसुषिरं, त्र्यस्त्रं त्रिकोणं, चतुरस्त्रं चतु:कोणं, आयतं प्रलम्बं, एतैः संस्थानैः स्कन्धाः स्युः ॥२१॥ वर्णगन्धरसस्पर्शसंस्थानानां परस्परसम्बधमाह
श्रीउत्तराध्ययनदीपिकाटीका - २
वण्णओ जे भवे किण्हे, भइए से उ गंधओ ।
रसओ फासओ चेव, भइए संठाणओ विय ॥२२॥
व्याख्या–वर्णतो यः स्कन्धादिर्भवेत् कृष्णः, स तु पुनर्गन्धतो गन्धमाश्रित्य भाज्यः सुरभिगन्धो वा दुर्गन्धो वा स्यात्, न तु नियतगन्ध एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च, अन्यतररसादियोग्यो वाऽसौ भवेदित्यर्थः ॥२२॥ वणओ जे भवे नीले, भइए से उ गंधओ ।
रसओ फासओ चेव, भइए संठाणओ विय ॥ २३ ॥
व्याख्या - वर्णतो यः स्कन्धादिर्नीलो भवेत् सोऽपि गन्धतो रसतः स्पर्शत
चैव भाज्यः संस्थानतश्च ||२३||
>
aurओ लोहिए जे उ, भइए से वि गंधओ ।
सओ फासओ चेव, भइए संठाणओ विय ॥२४॥ व्याख्या - वर्णतो यः स्कन्धादिर्लोहितो भवेत् सोऽपि गन्धरस्पर्शसंस्थानतश्च
भाज्यः || २४॥
Jain Education International 2010_02
aणओ जे उ हालिद्दे, भइए से वि गंधओ । रसओ फासओ चेव, भइए संठाणओ विय ॥२५॥
For Private & Personal Use Only
www.jainelibrary.org