SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ५५१ व्याख्या-वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च, अयमर्थ:वर्णादीन् पञ्चाश्रित्य विज्ञेयो ज्ञातव्यः परिणामः स्वरूपे स्थितानामेव वर्णाद्यन्यथाभावः, स तेषां परमाणूनां स्कन्धानां च पञ्चधा, इहाऽणोः संस्थानाऽभावात् स्कन्धस्यैवेयन्तो भेदा ज्ञेयाः, अणुनां वर्णगन्धरसस्पर्शवत्त्वादेव ॥१५॥ प्रत्येकमेषामेवोत्तरभेदनाह वण्णओ परिणया जे उ, पंचहा ते पकित्तिया । किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा ॥१६॥ व्याख्या-वर्णतः परिणता वर्णपरिणामभाज इत्यर्थः, येऽणवादयस्तु, ते पञ्चधा प्रकीर्तिताः, प्रकर्षेण सन्देहापनेतृत्वलक्षणेन संशब्दिताः, तानेवाह-कृष्णाः कज्जलादिवत् , नीला नील्यादिवत् , लोहिता हिङ्गुलादिवत् , हरिद्रा हरिद्रावत् , शुक्लाः शङ्खादिवत् , तथेति समुच्चये ॥१६॥ __ गंधओ परिणया जे उ, दुविहा ते वियाहिया । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥ व्याख्या-ये तु पुद्गला गन्धतः परिणताः सन्ति, ते पुद्गला द्विविधा व्याख्याताः, सुरभिगन्धपरिणामो येषां ते सुरभिगन्धपरिणामाश्चन्दनादिवत् , दुरभिगन्धत्वेन परिणता दुरभिगन्धा लसुनादिवत् ॥१७॥ रसओ परिणया जे उ, पंचहा ते उ कित्तिया । तित्तकडुयकसाया य, अंबिला महुरा तहा ॥१८॥ व्याख्या-ये च पुद्गला रसतः परिणतास्ते च पञ्चधा कीर्तिताः, तिक्ताः शुण्ठ्यादिवत् , कटुका निम्बादिवत् , कषायाश्चाऽपक्वकपित्थादिवत् , आम्ला आम्लवेतसादिवत् , मधुराः शर्करादिवत् ॥१८॥ फासओ परिणया जे उ, अट्टहा ते वियाहिया । कक्खडा मउया चेव, गुरुया लहुया तहा ॥१९॥ व्याख्या-ये च पुद्गलाः स्पर्शतः परिणतास्तेऽष्टधा विख्याताः, कर्कशाः पाषाणादिवत् , मृदवो हंसरूतादिवत् , गुरवो हीरकादिवत् , लघवोऽर्कतूलादिवत् ॥१९॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy