SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ५५० श्रीउत्तराध्ययनदीपिकाटीका-२ विषमाक्षरपादं वा, पादैरसमं दशधर्मवत् ।। तन्त्रेऽस्मिन् पदबद्धं, गाथेति तत्पण्डितै यम् ॥१॥[ ] दशधर्मवत् , यथा दशधर्मं न जानन्ति, धार्तराष्ट्रा निबोधत !। मत्तः १ प्रमत्त २ उन्मत्तः ३, श्रान्तः ४ क्रुद्धो ५ बुभुक्षितः ६ । त्वरमाणश्च ७ भीरुश्च ८, लुब्धः ९ कामी च १० ते दश ॥११॥[ ] संतई पप्प तेणाई, अपज्जवसिया वि य ।। ठिई पडुच्च साईया, सप्पज्जवसिया वि य ॥१२॥ व्याख्या-सन्ततिं अपरापरोत्पत्ति प्राप्याश्रित्य इति ते स्कन्धाः परमाणवश्च अनादयोऽपर्यवसिता अपि च, न हि स्कन्धा अणवश्च कदाचित् प्रवाहतो न भूता न भविष्यन्तीति, किन्तु स्कन्धाः कालेनाणवः, अणवश्च स्कन्धा जायन्ते इत्यर्थः, स्थिति नियतक्षेत्रस्थानं प्रतीत्याङ्गीकृत्य सादिकाः सपर्यवसिता अपि च, कालान्तरे नवनवक्षेत्रगामित्वात् अणुस्कन्धानाम् ॥१२॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषा स्थितिरित्याह असंखकालमुक्कोसं, इक्कं समयं जहन्नयं । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥१३॥ व्याख्या-असङ्ख्यकालमुत्कृष्टा, एकं समयं जन्यिका, अजीवानां पुद्गलानां रूपिणां पुद्गलानां स्थितिरेषा व्याख्याताः, जघन्यत एकसमयादुत्कृष्टतश्चासङ्ख्येयकालात् परतोऽवश्यमेव एकस्थानान्नभ:प्रदेशादेः स्कन्धानां, केवलनभ:प्रदेशादणूनां च विचटनात् ॥१३॥ कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह अणंतकालमुक्कोसं, इक्कं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरं तु वियाहियं ॥१४॥ व्याख्या-अनन्तकालमुत्कृष्टमेकं समयं जघन्यकमजीवानां रूपिणामन्तरं विवक्षितक्षेत्रस्थितेश्च्युतानां पुनस्तत्प्राप्तेरन्तरमेतद्वयाख्यातम् ।।१४।। भावत आह वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ य विन्नेओ, परिणामो तेसि पंचहा ॥१५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy