________________
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५४९ सितत्वेनैवाख्यातः, आदेशं देशविशेष घट्याद्यं प्रतिनियतव्यक्त्यात्मकं प्राप्याङ्गीकृत्य चः पुनः सादिः सपर्यवसितोऽपि, चः समुच्चये ॥९॥
अथाऽमूर्त्तत्वेनैषां पर्यायाः प्ररूप्यमाणा अपि न ज्ञातुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणं प्ररूपयितुमाह
खंधा य खंधदेसा य, तप्पएसा तहेव य ।
परमाणुणो य बोधव्वा, रूविणो चउव्विहा ॥१०॥ व्याख्या-स्कन्दन्ति शुष्यन्ति धीयन्ते पोष्यन्ते पुद्गलानां विचटनचटनाभ्यां इति स्कन्धाः, स्कन्धानां स्तम्भादिरूपाणां स्थूला भागाः परमाणुपुञ्जरूपाः स्कन्धदेशाः, तथा तेषां स्कन्धानां निविभागा मिलितपुद्गलाऽविभागांशाः स्कन्धप्रदेशाः, परमाणवो निर्विभागद्रव्यरूपा एकैकाः, च समुच्चये, बोधव्याः, एवं चतुर्विधा रूपिणः सन्ति, मुख्यवृत्त्या तु स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ ॥१०॥ तयोर्लक्षणमाह
एगत्तेण पुहुत्तेण, खंधा य परमाणुणो । लोगेगदेसे लोए य, भइयव्वा ते उ खेत्तओ ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥११॥ (षट्पदी) व्याख्या-एकत्वेनाणुभिः सहैकपरिणत्या [स्कन्धाः] स्युः पृथकत्वेन परमाण्वन्तरैरसङ्गतेन परमाणवः स्युः, कोऽर्थः ? मिलिता व्यणुकाद्या अनन्तप्रदेशान् यावत् स्कन्धा एकैकाश्चाणवः, यद्वा स्कन्धा एकत्वे एकत्वेऽन्यपरमाणूनां द्विप्रदेशत्वाद्यसमपरिणामेनाऽन्यस्कन्धनिर्गताणुमिलनेन च तथा पृथक्त्वेन पतत्परमाणुत्वेन च स्युः, यतः स्कन्दन्ति शुष्यन्ति अणुपाते धुयन्ति पिबन्त्यणून् न संयोगे सतीति स्कन्धाः, अणवस्त्वेकत्वेनैव । तथा सङ्घातभेदे सङ्घाते भेदे च स्कन्धास्त्रिधापि स्युः, एतानेव क्षेत्रत आह
लोकैकदेशे लोके च भक्तव्या भजनया दर्शनीयास्ते स्कन्धाः परमाणवश्च, तुः पूर्ती, क्षेत्रतोऽत्र च विशेषोक्तावपि परमाणूनामेकदेश एवाऽवस्थानात् स्कन्धविषयैव भजना दृष्टव्या। ते हि विचित्रत्वात् परिणतेर्बहुप्रदेशा अप्येके एकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु प्रदेशेषु यावत् सकललोकेऽपि तथाविधाऽचित्तमहास्कन्धवत् स्युरिति भजनीया उच्यन्ते । इतः क्षेत्रप्ररूपणातोऽनु कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं, साधनाद्यसपर्यवसितभेदेन, अनन्तरमेव वक्ष्यमाणेनेति । इदं सूत्रं षट्पादगाथेत्युच्यते । यतस्तल्लक्षणं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org