________________
५४८
श्रीउत्तराध्ययनदीपिकाटीका-२ स्थित्यवष्टम्भकत्वादित्यधर्मः, स एवाऽस्तिकायोऽधर्मास्तिकायः १ तस्य देशः स्थूलो भागोऽधर्मास्तिकायदेशः २ तत्प्रदेशो निर्विभागो भागश्चाख्यातः ३ ॥५॥
आगासे तस्स देसे य, तप्पएसे य आहिए ।
अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ व्याख्या-आङिति मर्यादया स्वरूपाऽत्यागरूपया काशन्ते भासन्तेऽस्मिन् षदार्था इत्याकाशं, आङ् अभिविधा व्याप्त्या सर्वभावानां काशते इत्याकाशं वा, तदेवास्तिकाय आकाशास्तिकायः १ प्राग्वत्तस्य देशश्च २ तत्प्रदेशश्चाख्यातः ३ एवं ९ अद्धा कालस्तद्रूप: समयोऽद्धासमयो निर्विभागत्वाच्चास्य न देशप्रदेशौ, इत्यरूपिणो दशधा भवेयुः ।।६।। एतानेव क्षेत्रत आह
धम्माधम्मा य दोवेते, लोयमित्ता वियाहिया ।
लोगालोगे य आगासे, समये समयखेत्तिए ॥७॥ व्याख्या-धर्माऽधर्मी धर्मास्तिकायाऽधर्मास्तिकायौ च, द्वावप्येतौ लोकमात्रौ व्याख्यातौ, द्विवचनेन गतार्थत्वेऽपि द्वौशब्दः स्पष्टत्वाय । लोके अलोके चाकाशं सर्वगत्वात्तस्य, समय इत्यद्धासमयः, समयक्षेत्रं विषयभूतमस्यास्तीति समयक्षेत्रिकः, तत्परतस्तस्याऽभावात् ,
समयमूलत्वादावलिका-पक्षमासऋत्वयनसञ्जिता ।
नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥१॥ [ ] ||७|| एतानेव कालत आह
धम्माधम्मो य आगासं, तिण्णि वि एए अणाइया ।
अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ॥८॥ व्याख्या-धर्माऽधर्माकाशानि त्रीण्यप्येतानि अनादिकानि, अपर्यवसितानि चैव अनन्तानीत्यर्थः, सर्वाद्धमेव सर्वदा स्वस्वरूपाऽपरित्यागतो नित्यानीत्यर्थः, व्याख्यातानीति ।।८।।
समए वि संतई पप्प, एवमेव वियाहिए ।
आएसं पप्प साईए, सपज्जवसिए वि य ॥९॥ व्याख्या-समयोऽपि सन्ततिमपरापरोत्पत्तिप्रवाहं प्राप्याश्रित्यैवमेवाऽनाद्याऽपर्यव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org