________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५४७ षोढा, औदयिककषायपरिणामश्चतुर्धा, अजीवद्रव्यस्य पुद्गलस्य शुभाशुभशब्दरूपादिभेदैर्दशधा ॥१॥
जीवाऽजीवप्रसङ्गत एव महाव्रतेषूपयोगित्वाल्लोकालोकविभक्तितमाह__ जीवा चेव अजीवा य, एस लोए वियाहिए ।
अजीवदेसमागासे, अलोए से वियाहिए ॥२॥ व्याख्या-जीवाश्चैव अजीवाश्च, एष सर्वप्रसिद्धो लोके व्याख्यातोऽहंदाद्यैः, अजीवदेश आकाशमलोकः सव्याख्यातो धर्मास्तिकायादिसहितस्याकाशस्यैव लोकत्वात् ॥२॥ जीवाऽजीवविभक्तिमाह
दव्वओ खित्तओ चेव, कालओ भावओ तहा।
परूवणा तेसिं भवे, जीवाणमजीवाण य ॥३॥ व्याख्या-द्रव्यत इदमियरेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति देशे, कालत इदमियत्स्थितिकं, भावत इमेऽस्य पर्यायाः, तथेति समुच्चये, इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेज्जीवानामजीवानां च ॥३॥ स्वल्पवक्तव्यादादावजीवप्ररूपणामाह
रूविणो चेवऽरूवी य, अजीवा दुविहा भवे ।
अरूवी दसहा वुत्ता, रूविणो वि चउव्विहा ॥४॥ व्याख्या-रूपस्पर्शाद्याश्रयाहमूर्तिस्तदेषामेषु वाऽस्तीति रूपिणः, चः समुच्चये, एव पूत्तौं, अरूपिणश्च, नैषामुक्तरूपमस्तीति कृत्वा अजीवा द्विविधा भवेयुः, तत्राप्यरूपिणो दशधा उक्ताः, अपिः पुनरर्थे, ततो रूपिणश्चतुर्विधा अजीवाः ॥४॥
अरूपिणो दशधा, तानाह
धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए ।
अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥ व्याख्या-धारयति अनुगृह्णाति गतिपरिणतजीवपुद्गलान् अरूपित्वेऽपि स्वस्वभावादिति धर्मः, अस्तयः प्रदेशास्तेषां चीयते इति अस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, सर्वदेशप्रदेशानुगं द्रव्यं १ तस्य दिश्यते समानपरिणामत्वेऽपि विभागेनेति तद्देशो धर्मास्तिकायदेशः २ देशस्त्रिभागश्चतुर्भागादिः, तस्य प्रकर्षेणाऽविभागांसितया यद्दिश्यते तत्प्रदेशः, प्रदेशस्तु निरंशो भाग आख्यातः ३ न धारयति जीवाणून् गतिपरिणतौ
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org