________________
५४६
श्रीउत्तराध्ययनदीपिकाटीका-२ जाणगसरीरभविए, तव्वइरित्ते अ जीवदव्वं तु ।
भावंमि दसविहो खलु, परिणामो होइ अजीवस्स ॥४॥ [उ.नि.गा.५५२] व्याख्या-ज्ञभव्यदेहातिरिक्तं द्रव्ये पुद्गलद्रव्यमपर्यायं विवक्षितः सन् , परिणामो भिन्नत्वादजीवद्रव्यं दशधा, शब्दरूपरसगन्धस्पर्शाः शुभा अशुभाश्च परिणामाः भाविअजीवाः ॥४॥
निक्खेवो विभत्तीए, चउव्विहो दुविहो होइ दव्वंमि । आगमनोआगमओ, नोआगमओ य सा तिविहा ॥५॥ [उ.नि.गा.५५३] जाणगसरीरभविया, तव्वइरित्ता य सा भवे दुविहा ।
जीवाण अजीवाण य, जीवविभत्ति तहिं दुविहा ॥६॥ [उ.नि.गा.५५४] व्याख्या-ज्ञशरीरद्रव्यविभक्तिर्येन देहेन बालादिस्तद्भवे विभक्तिशब्दार्थं ज्ञास्यति स देहः, भव्यशरीरद्रव्यविभक्तिर्येन जीवदेहेन प्राग विभक्तिशब्दार्थो ज्ञातोऽभूत् सोऽजीवो देहः, ज्ञभव्यशरीरव्यतिरिक्ताद्व्यतिरिक्ताविभक्तिद्रव्ये, सा द्विविधा, जीवविभक्तिर्जीवभेदाः, अजीवविभक्तिरजीवभेदाश्च ॥६॥
सिद्धाण असिद्धाण य, अजीवाणं तु होइ दुविहा उ ।
रूवीणमरूवीण य, विभासियव्वा जहा सुत्ते ॥७॥ [उ.नि.गा.५५५] विभाषितव्या स्पष्टीकार्या विभक्तिर्भेदाः ।
भावंमि विभत्ती खलु, नायव्वा छव्विहंमि भावंमि ।
अहिगारो इत्थं पुण, दव्वविभत्तीए अज्झयणे ॥८॥ [उ.नि.गा.५५६] व्याख्या-औदयिकौपशमिकक्षायिकक्षायोपशमिकपरिणामिकसान्निपातिकभावेषु षट्सु, अत्राध्ययने जीवाऽजीवद्रव्यविभक्त्यधिकारः ॥८॥ इतिनियुक्तिगाथा अष्ट उक्ताः, उक्तो नामनिष्पन्नो निक्षेपोऽथ सूत्रानुगमे सूत्रमिदम्
जीवाजीवविभत्तिं मे, सुणेहेगमणा इओ ।
जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ व्याख्या-जीवाश्चोपयोगलक्षणाः, अजीवाश्च तद्विपरीताः, जीवाऽजीवास्तेषां विभजनं विभक्तिः, तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं, जीवाऽजीवविभक्तिस्तां शृणुत हे शिष्या ! एकमनसः सन्तः, इतोऽनन्तराऽध्ययनादेतद्विषयाच्छ्रवणाद्वाऽनन्तरं, यां जीवाऽजीवविभक्तिं ज्ञात्वा भिक्षुः (पाठान्तरे-श्रमणः) सम्यग् यतते यत्नवान् स्यात् संयमे उक्तरूपसंयमविषये । जीवद्रव्यस्य दशधा परिणामः, क्षयोपशमिक इन्द्रियमन:परिणाम:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org