________________
पञ्चत्रिंशमनगारमार्गगतिनामकाध्ययनम्
५४१ पचनादौ जन्तुवधः स्यात् , न तु क्रयविक्रययोः, अतो युक्तमेवाभ्यां निर्वहणं, इति कस्यचिदाशङ्का स्यादत आह
हिरण्णं जायरूवं च, मणसा वि न पत्थए ।
समलेट्टकंचणे भिक्खू, विरए कयविक्कए ॥१३॥ व्याख्या-हिरण्यं स्वर्णं जातरूपं रूप्यं, चः अनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसापि, आस्तां वाचा, न प्रार्थयेद्भिक्षुः, कीदृक् सन् ? समलेष्टकाञ्चनो विरतः क्रयविक्रये ॥१३॥ क्रयविक्रयविषये किमित्येवमत आहकिणंतो कइओ होइ, विक्कणंतो य वाणिओ ।
कयविक्कयंमि वतो, भिक्खू हवइ न तारिसो ॥१४॥ व्याख्या-क्रीणन् क्रयकः स्यात् , तथाविधेतरलोकसदृशः, विक्रीणंश्च वणिक स्यात् , वाणिज्यप्रवृत्वात् , इति भावः, अत एव क्रयविक्रये वर्तमानो भिक्षुर्न भवति तादृशो यादृशः सूत्रे उक्तो भावभिक्षुः ॥१४॥ ततः किमित्याह
भिक्खियव्वं न केतव्वं, भिक्खुणा भिक्खवित्तिणा।।
कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा ॥१५॥ व्याख्या-भिक्षितव्यं याचितव्यं योग्यं वस्तु, न नैव क्रेतव्यं मूल्येन गृहीतव्यं, भिक्षुणा भिक्षावृत्तिना, उक्तं हि-"सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं" [ ] क्रयविक्रयौ महादोषौ, भिक्षावृत्तिस्तु सुखावहा, शुभावहा वा ॥१५॥
अनेन क्रीतदोष उक्तोऽशेषविशुद्धकोटीगतदोषत्यागज्ञप्त्यै भिक्षितव्यमित्युक्तं, तच्चैककुलेऽपि स्यादत आह
समुयाणं उंछमेसिज्जा, जहा सुत्तमणिदियं ।
लाभालाभंमि संतुटे, पिंडवायं चरे मुणी ॥१६॥ व्याख्या-समुदानं भैक्ष्यं, नत्वेकभिक्षामेव, तच्चोञ्छमिवोञ्छमन्याऽन्यपरिमितं स्तोकस्तोकमिलनात् मधुकरवृत्त्या एषयेत् , यथा सूत्रमागमोक्ताऽनेषणाद्यबाधितं, अत एवाऽनिन्दितं स्वपरप्रशंसादिहेतुना नोत्पादितं, जात्यादिजुगुप्सितजनसम्बन्धि वा न स्यात् ,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org