________________
५४२
श्रीउत्तराध्ययनदीपिकाटीका-२ लाभश्च अलाभश्च लाभाऽलाभौ, तयोः सन्तुष्टः, पिण्डस्य भिक्षायाः पातः पतनं पात्रेऽस्मिन्निति पिण्डपातं भिक्षाटनं चरेदासेवत [मुनिरिति तपस्वी] ॥१६॥ यथा भुञ्जीत तथाह
अलोलो न रसे गिद्धे, जिब्भादंतो अमुच्छिओ ।
न रसट्ठाए भुंजिज्जा, जवणट्ठाए महामुणी ॥१७॥ व्याख्या-अलोलो न रसान्ने प्राप्ते लाम्पट्यवान् , न रसे स्निग्धादौ गृद्धोऽप्राप्ते काङ्क्षावान् , प्राकृतत्वाद्दान्ता जिह्वा येनासौ दान्तजिह्वः, अत एवाऽमूछितः सन्निधेरकरणेन, तत्कालेनाऽभिष्वङ्गाऽभावेन, उक्तं हि-"णो वामाओ हणूयाओ दाहिणं, दाहिणाओ वा वामं चालेइ" [ ] । रसो धातुविशेषः, धूतापलक्षणं, तदुपचयार्थं न भुञ्जीत, किन्तु यापना निर्वाहः, स च संयमस्य, तदर्थं महामुनिर्भुञ्जीत एवं पिण्डशुद्धिरुक्ता ।।१७।।
अच्चणं रयणं चेव, वंदणं पूयणं तहा ।।
इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥१८॥ व्याख्या-अर्चनां पुष्पाद्यैरपि पूजां, रचनां निषद्यादिविषयां स्वस्तिकाद्यां वा, चः समुच्चये, एवः निश्चये, वन्दनं, पूजनं वस्त्राद्यैः प्रतिलाभनं, तथेति समुच्चये, ऋद्धिः श्राद्धोपकरणादिः सम्पद् , आमर्पोषध्यादिर्वा, सत्कारोऽर्थप्रधानादिः, सन्मानमभ्युत्थानादिः, एवंविधं ऋद्धिसत्कारसन्मानं मनसापि, आस्तां वाचा, नैव प्रार्थयेत्, विधिना तु वन्दनग्रहणं वस्त्रग्रहणादिर्वा कुर्यात् ॥१८॥
सुक्कं झाणं झियाएज्जा, अनियाणे अकिंचणे ।।
वोसट्टकाए विहरेज्जा, जाव कालस्स पज्जओ ॥१९॥ व्याख्या-तथा शुक्लं ध्यानं यथा स्यादेवं ध्यायेत् , अनिदानोऽकिञ्चनो व्युत्सृष्टकायो विहरेदप्रतिबद्धविहारितया, यावत्कालस्य मृत्योः पर्यायः प्रस्तावः ॥१९॥
निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए ।
चइऊण माणुसं बोंदि, पहू दुक्खे विमुच्चई ॥२०॥ व्याख्या-['निज्जूहिऊण'त्ति] परित्यज्याहारं संलेखनाक्रमेणैव, झगत्यशनादित्यागे सामान्यानां बहुतर-दोषसम्भवात्
देहमि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । झायइ अट्टज्झाणं, सरीरिणो चरमकालंमि ॥१॥ [प.व./गा.१५७७]
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org