________________
५४०
श्रीउत्तराध्ययनदीपिकाटीका-२ केषामित्याह
तसाणं थावराणं च, सुहुमाणं बायराण य ।
तम्हा गिहसमारंभं, संजओ परिवज्जए ॥९॥ व्याख्या-त्रसानां स्थावराणां सूक्ष्माणां देहेन सूक्ष्मनामकर्मोदयाद्वा, प्रमादतस्तेषामपि भावहिंसासम्भवात् , बादराणां स्थूलानां बादरनामकर्मोदयाद्वा, तस्माद् गृहसमारम्भं संयतः परिवर्जयेत् ।।९।। अथाहारविधिमाह
तहेव भत्तपाणेसु, पयणे पयावणेसु य ।
पाणभूयदयट्ठाए, न पए न पयावए ॥१०॥ व्याख्या-तथैवेति प्राग्वद्भक्तपानेषु पचनं स्वयं पाचनमन्यैः, तेषु पचनपाचनेषु भूतवधो दृश्यते, प्राणा द्वीन्द्रियादयो भूतानि पृथ्व्यादीनि, तेषां दयार्थं न पचेन्न पाचयेत् ॥१०॥
अमुमेवार्थं स्पष्टमाह
जलधन्ननिस्सिया जीवा, पुहवीकट्ठनिस्सिया ।
हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥११॥ व्याख्या-जलधान्ययोनिश्रितास्तत्राऽन्यत्र चोत्पद्य ये तन्निश्रया स्थिताः, पूतरकेलिकाकीटाद्याः, जलधान्ययोर्वा मिश्रिता अब्वनस्पतिकायत्वेनाऽतिश्रिताः स्थिता जीवाः, एवं पृथिवीकाष्ठनिश्रिता हन्यन्ते भक्तपानेषु पच्यमानादिषु तस्माद्भिक्षुर्न पाचयेन्न पचेन्न पाकेऽनुमन्यादित्यपि ॥११॥
अन्यच्चविसप्पे सव्वओधारे, बहुपाणविणासणे।
नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥१२॥ व्याख्या-विसर्पति स्वल्पमपि बहु भवतीति विसर्प, सर्वतः सर्वासु दिक्षु धारेव धारा जन्तुविनाशिका शक्तिरस्येति सर्वतोधारं, सर्वदिक्स्थजन्तुहन्तृत्वात् , अत एव बहुप्राणविनाशनं, नास्ति ज्योतिःसमं शस्त्रमन्यत् , शस्त्रस्य ह्यविसर्पत्वादसर्वतो धारत्वादल्पजन्तुहन्तृत्वाच्चेति भावः, तस्माज्ज्योतिर्न दीपयेत् ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org