SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशमनगारमार्गगतिनामकाध्ययनम् ५३९ व्याख्या-मनोहरं, चित्रप्रधानं गृहं चित्रघरं, माल्यैर्ग्रथितपुष्पै पनैश्च कृष्णागुर्वाद्यैर्वासितं, सकपाटं पाण्डुरोल्लोचं, मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनस्तत्र तिष्ठेदिति भावः, निरवद्ये सकपाटे यतनार्थं च वस्त्रोपेते वसेत् ॥४॥ किं पुनरेवमुपदिश्यते ? इत्याह इंदियाणि तु भिक्खुस्स, तारिसंमि उवस्सए । दुक्कराई निवारेउं, कामरागविवड्डणे ॥५॥ व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुःकराणि 'करोते: सर्वधात्वर्थत्वात्' दुःशकानि निवारयितुं स्वस्वविषयप्रवृत्तेः, कामा इष्टेन्द्रियविषयास्तेषु रागोऽभिष्वङ्गस्तस्य वर्द्धने, उपाश्रयविशेषणमेतत् ।।५।। तर्हि क्व स्थेयमित्याह सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थाभिरोयए ॥६॥ व्याख्या-स्मशाने वा शून्यागारे वा वृक्षमूले वा एककोऽरागादिरसहायो वा, 'पइरिक्के'त्ति देश्या एकान्ते स्त्र्याद्यसङ्कले, परकृते परैः कृते स्वार्थं, वासं स्थानं तत्र स्मशानादौ अभिरोचयेदात्मने भिक्षुः ॥६॥ फासुयंमि अणाबाहे, इत्थीहि अणभिद्दुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ व्याख्या-प्रासुकेऽचित्तीभूतभूभागे, अनाबाधे यत्रात्मनः परैरागन्तुभिराबाधा न स्यात् , स्त्रीभिरनभिद्रते, तत्र प्रागुक्तविशेषणे स्मशानादौ सम्यक कल्पयेत् कुर्याद्वासं भिक्षः परमसंयतः परमो मोक्षस्तदर्थं सम्यग् यतते इति । प्राग् वासं तत्राभिरोचयेदित्युक्तेः रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ।।७।। ननु किमिह परकृतमिति विशेषणमुक्तमित्याशङ्क्याह न सयं गिहाई कुविज्जा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥८॥ व्याख्या-न स्वयं गृहाणि कुर्वीत, नैवान्यैः कारयेत् , उपलक्षणान्नापि कुर्वन्तमनुमन्येत, यतो गृहकर्मणि इष्टिकामदानयनादि, तस्य समारम्भे प्रवर्त्तने च भूतानां दृश्यते वधः ॥८॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy