SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशमनगारमार्गगतिनामकाध्ययनम् ॥ लेश्याभिः शस्ताभिभिक्षवः स्युरिति भिक्षुगुणज्ञानायाऽनगारमार्गगत्याख्यं पञ्चत्रिंशाध्ययनमाह सुणेह मे एगग्गमणे, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ व्याख्या-शृणुत 'मे' हे शिष्या ! यूयं एकाग्रमनसो मार्ग मुक्तेर्बुधैरहंदाद्यैर्देशितं, यमाचरन् भिक्षुर्दुःखानामन्तको भवेत् ॥१॥ गिहवासं परिच्चज्ज, पव्वज्जामस्सिओ मुणी । इमे संगे वियाणेज्जा, जेहिं सज्जंति माणवा ॥२॥ व्याख्या-गृहवासं, यद्वा पारवश्याद् गृहमेव पाशं परित्यज्य प्रव्रज्यामाश्रितो मुनिः, इमान् प्रतिप्राणिप्रतीततया प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन् विजानीयाद्भवहेतवोऽमी इति विशेषेणावबुद्धयेत, ज्ञानस्य विरतिफलत्वात् प्रत्याख्यायाच्च, येषु यैर्वा सज्यन्ते बद्ध्यन्ते कर्मणा मानवा अन्येऽपि जीवाश्च ॥२॥ तहेव हिंसं अलियं, चोज्जं अब्बंभसेवणं । इच्छाकामं च लोभं च, संजओ परिवज्जए ॥३॥ व्याख्या-तथा समुच्चये, एव पूर्ती हिंसामलीकं चौर्यमब्रह्मसेवनं, इच्छारूप: कामस्तं वा प्राप्तवस्तुकाङ्क्षारूपं, लोभं च लब्धवस्तुगृद्ध्यात्मकं, उभयेनापि परिग्रह उक्तः, तं च संयतः परिवर्जयेत् ।।३।। मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडुरुल्लोयं, मणसा वि न पत्थए ॥४॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy