SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशं लेश्याध्ययनम् ५३७ अथायुर्द्वारावसरः, तत्र चावश्यं हि जन्तुर्यल्लेश्य उत्पत्स्यते तल्लेश्य एव म्रियते, तत्र जन्मान्तरभावलेश्यायाः किं प्रथमसमये परभवायुष उदयोऽथवा चरमसमयेऽन्यथा वा ? इति संशयच्छेदायाह लेस्साहिं सव्वाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सइ वि उववत्ति, पर भवे अत्थि जीवस्स ॥५८॥ व्याख्या - लेश्याभिः सर्वाभिरिति षड्भिः, प्रथमसमये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतामापन्नाभिः तुः पूर्त्यै, न हु नैव कस्याप्युत्पत्तिः परे भवे अस्ति जीवस्य ॥५८॥ लेस्साहिं सव्वाहिं, चरमे समयंमि परिणयाहिं तु 1 न हु कस्स वि उववाओ, परभवे अत्थि जीवस्स ॥५९॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमेऽन्त्ये समये परिणताभिस्तु न हि कस्याप्युपपादः परभवे भवति जीवस्य ॥५९॥ अंतोमुहत्तंमि गए, अंतमुहुत्तंमि सेस चेव । साहिं परिणयाहिं, जीवा गच्छंति परलोयं ॥६०॥ व्याख्या - अन्तर्मुहूर्ते गते एव, तथान्तर्मुहूर्त्ते शेषके चैवाऽवशिष्यमाणे एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं भवान्तरं, एतेनान्तर्मुहूर्त्तशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं, सुरनारकाणां त्वागामिकभवाद्यान्तर्मुहूर्तं यावल्लेश्याभावात् ॥६०॥ अध्ययनार्थमुपसंहरन्नुपदेशमाह तम्हा एयासिं लेसाणं, अणुभागे वियाणिया । अप्पसत्था उ वज्जित्ता, पसत्थाओ अहिट्ठिए ॥ ६१ ॥ त्ति बेमि व्याख्या–यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मादेतासां लेश्यानामनुभागमुक्तरूपं विज्ञायाऽप्रशस्ताः कृष्णाद्या वर्जयित्वा प्रशस्तास्तैजस्याद्यास्तिस्रोऽधितिष्ठेत् भावप्रतिपत्त्या श्रयेन्मुनिः, इति समाप्तौ ब्रवीमीति प्रग्वत् ॥ इति चतुस्त्रिंशं लेश्याध्ययनमुक्तम् ॥३४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy