________________
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या- तेजोलेश्यायाः स्थितिर्दशवर्षसहस्त्राणि जघन्या भवति, तथा पुनर्द्वे सागरोपमे पल्योपमाऽसङ्ख्येयभागयुक्ते सैवोत्कृष्टा भवति । तत्र जघन्या व्यन्तरभवनपतिदेवानाश्रित्य ज्ञेया, उत्कृष्टा च द्वितीयदेवलोकदेवापेक्षया ज्ञेया ॥५३॥
५३६
जा तेऊए ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहन्नेणं पम्हाए, दस उ मुहुत्ताहियाइं उक्कोसा ॥५४॥
व्याख्या - या तैजस्या उत्कृष्टा स्थितिः सा समयाभ्यधिका पद्माया जघन्या, उत्कृष्टा तु दशैव सागराणि प्राग्भवसत्कान्तर्मुहूर्त्ताधिकानि । इयं च जघन्या सनत्कुमारे, उत्कृष्टा च ब्रह्मलोके । अत्राह वादी - यदिहान्तर्मुहूर्तमधिकमुच्यते, ततः पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते - देवभवलेश्याया एव तत्र विवक्षितत्वात् । नन्वेवं सतीहान्तमुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि प्रागुत्तरभवलेश्यापि " अन्तो मुहुत्तम्मि गए" इति वचनाद्देवभसम्बन्धिन्येवेति ज्ञप्त्यै इत्थमुक्तम् ॥५४॥
जा म्हाइ ठिई खलु, उक्कोसा चेव समयमब्भहिया । जहणणेणं सुक्काए, तित्तीसं मुहुत्तमब्भहिया ॥५५ ॥
व्याख्या-या पद्माया उत्कृष्टा स्थितिर्दशसागरा मुहूर्त्ताधिका, सा एकेन समयेनाऽभ्यधिका जघन्येन स्थितिः शुक्लाया ज्ञेया, उत्कृष्टा च त्रयस्त्रिंशत्सागरा मुहूर्त्ताधिका, तत्र जघन्या लान्तके, अपरा त्वनुत्तरेषु ॥५५॥
इत्युक्तं स्थितिद्वारं, गतिद्वारमाह
किण्हा नीला काऊ, तिण्णि वि एया अहम्मलेसाओ । एयाहिं तिहिं वि जीवो, दुग्गइं उववज्जई ॥५६॥
व्याख्या - कृष्णा नीला कापोता च इति तिस्रोऽपि [ एता] लेश्या अधर्मलेश्याः सन्ति, अविशुद्धत्वेनाऽप्रशस्तत्वात्, तत एताभिस्तिसृभिरपि जीवो दुर्गतिं नरकतिर्यग्गतिमुपपद्यते ॥५६॥
तेऊ पम्हा सुक्का, तिण्णि वि एयाओ धम्मलेसाओ । एयाहिं तिहिं वि जीवो, सुग्गइं उववज्जइ ॥५७॥
व्याख्या - तैजसी पद्माशुक्लास्तिस्त्रोऽप्येता धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, अत एवैताभिर्जीवः सुगतिं देवनृगती मुक्तिं चोपपद्यते ॥५७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org