________________
चतुस्त्रिंशं लेश्याध्ययनम्
जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहणेणं नीलाए, पलियमसंखं च उक्कोसा ॥४९॥
व्याख्या - या कृष्णायाः स्थितिरुत्कृष्टा पल्याऽसङ्ख्यभागा, सा समयाभ्यधिका जघन्येन नीलायाः, उत्कृष्टा स्थितिस्तु पल्योपमासङ्ख्येयभागा, सा समयाभ्यधिका जघन्येन नीलायाः उत्कृष्टा स्थितिस्तु पल्योपमासङ्ख्येयभागा भवति, परं जघन्यस्थितेर्बृहत्तरोऽयं भागो ज्ञेयः ॥४९॥
जा नीला ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहन्नेणं काऊए, पलियमसंखं च उक्कोसा ॥५०॥
५३५
व्याख्या - खलु निश्चयेन या नीलाया उत्कृष्टा स्थितिरुक्ता सा पुनः समयाऽभ्यधिका जघन्येन कापोतायाः स्थितिज्ञेया, च पुनस्तस्या उत्कृष्टा स्थितिः पल्योपमाऽसङ्ख्येयभागरूपा भवति, परमयमसङ्ख्येयो भागो बृहत्तमो ज्ञेय:, इत्येवं भवनपतिव्यन्तराणामेतावदायुषां लेश्यात्रयं दर्शितम् ॥५०॥
इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य सर्वनिकायभाविनीं तेजोलेश्यास्थितिमाह
तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं ।
भवणवइवाणमंतर - जोइसवेमाणियाणं च ॥५१॥
व्याख्या - ततः परं यथा यथावस्थितप्रकारेण सुरगणानां तेजोलेश्या स्यात् तथा प्रवक्ष्यामि, भवनपतिवानमन्तरज्योतिर्वैमानिकानां चः पूत्तौ । यथा भवनपतिव्यन्तराणां जघन्या दशवर्षसहस्राणि उत्कृष्टा च व्यन्तराणां पल्यं, भवनानां सागरं साधिकं, ज्योतिषां जघन्यां पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यं, एषां स्थितिश्चेत्येव ॥५१॥
पलिओवमं जहन्नं, उक्कोसा सागरा उ दो अहिया । पलियमसंखिज्जेणं, होइ भागेण तेऊए ॥५२॥
व्याख्या-जघन्या पल्यं, उत्कृष्टा द्वौ सागरौ अधिकौ पल्योसङ्ख्येयभागेन स्तस्तैजस्याः, सामान्योक्तावपि वैमानिकविषयैवासौ ज्ञेया । अत्र जघन्या सौधर्मे, उत्कृष्टा चेशाने, एवं शेषवैमानिकेष्वपि स्वस्वस्थितिमानेन लेश्यास्थितिर्ज्ञेया ॥५२॥
दसवाससहस्साइं, तेऊए ठिई जहण्णिया ।
होइ दो उदही पलिओवम - असंखभागं च उक्कोसा ॥५३॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org