________________
५३४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-एषा नैरयिकाणां नरकवासिजीवानां जघन्योत्कृष्टभेदेन स्थितिर्वर्णिता भवति, तेण 'परं' इति ततः परं तिर्यग्मनुष्याणां तिरश्चां तथा मनुष्याणां च देवानां च स्थितिं वक्ष्यामि ॥४४॥
अंतोमुत्तमद्धा, लेसाण ठिई जहिं जहिं जा उ ।
तिरियाणं नराणं च, वज्जित्ता केवलं लेसं ॥४५॥ व्याख्या-अन्तर्मुहर्ताद्धं अन्तर्मुहर्त्तकालं लेश्यानां स्थितिर्जघन्या मध्यमोत्कृष्टा च, यस्मिन् यस्मिन् पृथिवीकायादौ सम्मूच्छिममनुष्यादौ च याः कृष्णाद्याः, तुः पूर्ती, तिरश्चां मनुष्याणां च मध्ये स्युः, तासामेता हि क्वचित् काश्चित् सम्भवन्ति, वर्जयित्वा केवलां शुक्लां लेश्यां । यतः-''पृथ्व्यप्वनस्पतय आद्यचतुर्लेश्याः, तेजोवायुविकलसम्मूर्छिमनृनारका आधत्रिलेश्याः, शेषाः सर्वे घट्लेश्या:" [ ] ॥४५॥
मुहुत्तद्धा उ जहन्ना, उक्कोसा होइ पुव्वकोडीओ।
नवहिं वरिसेहिं ऊणा, नायव्वा सुक्कलेसाए ॥४६॥ व्याख्या-शुक्ललेश्याया जघन्या स्थितिरन्तर्मुहूर्त्तकालं यावद् ज्ञेया, उत्कृष्टा च नवभिर्वर्षभिरूना पूर्वकोटी ज्ञातव्या । इह यद्यपि कश्चिदष्टवार्षिकोऽपि पूर्वकोट्यायुतपरिणाममाप्नोति, तथापि नैतावद्वयस्थस्य वर्षपर्यायादर्वाक् शुक्लेश्यासम्भव इति नववर्षोना पूर्वकोटिरुच्यते ॥४६॥
एसा तिरियनराणां, लेसाण ठिई उ वणिया होइ ।
तेण परं वोच्छामि, लेसाण ठिई उ देवाणं ॥४७॥ व्याख्या-एषा तिरश्चां नराणां स्थितिर्वर्णिता भवति, 'तेण'त्ति ततः परं देवानां लेश्यानां स्थिति वक्ष्यामि ||४७||
दसवाससहस्साइं, कण्हाए ठिई जहणिया होइ ।
पलियमसंखिज्ज इमो, उक्कोसा होइ किण्हाए ॥४८॥ व्याख्या-कृष्णलेश्याया दशवर्षसहस्राणि जघन्यका स्थितिर्भवति, उत्कृष्टा च तस्याः पल्योपमाऽसङ्ख्येयतमभागरूपा स्थितिर्भवति । इयं च द्विविधापि कृष्णायाः स्थितिरेतावदायुषामेव भवनपतिव्यन्तराणां ज्ञेया, अन्यथा अधिककालोऽपि स्यात् ।।४८॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org