________________
चतुस्त्रिंशं लेश्याध्ययनम् अथोत्तरग्रन्थसम्बधायाह
एसा खलु लेसाणं, ओहेणं ठिई उ वन्निया ।
होइ चउसु वि गईसु, एत्तो लेसाण ठिई उ वोच्छामि ॥४०॥ व्याख्या-एषा लेश्यानां षण्णामप्योधेन सामान्यप्रकारेण स्थितिर्वर्णिता भवति, इतश्चतसृषु गतिषु लेश्यानां सर्वासां स्थितिं वक्ष्यामि ॥४०॥ ।
दसवाससहस्साइं, काऊए ठिई जहण्णिया होइ ।
तिण्णुदहि पलिओवम-मसंखभागं च उक्कोसा ॥४१॥ व्याख्या-कापोताया जघन्यका स्थितिर्दशवर्षसहस्राणि भवति, सा च प्रथमायां रत्नप्रभायां प्रथमप्रस्तटेऽस्ति, तत्रस्थानां हि जघन्यतो दशवर्षसहस्रायुष्कत्वात् , उत्कृष्टा स्थितिस्तु कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमाऽसङ्ख्येयभागयुक्तानि, इयं च स्थितिस्तृतीयपृथिव्या वालुकाप्रभाया उपरितनप्रस्तटनारकाणां ज्ञेया ॥४१॥
तिण्हुदहीपलिओवम-असंखभागं जहन्ननीलठिई ।
दसउदही पलिओवम-मसंखभागं च उक्कोसा ॥४२॥ व्याख्या-नीललेश्याया जघन्या स्थितिस्त्रीणि सागरोपमाणि पल्योपमाऽसङ्ख्येयभागयुक्तानि, इयती जघन्या स्थितिस्तृतीयाया वालुकप्रभायाः पृथिव्या अपेक्षया ज्ञेया, पुनस्तस्या उत्कृष्टा स्थितिर्दशसागरोपमाणि पल्योपमाऽसङ्ख्येयभागयुक्तानि । इयमपि पञ्चम्या धूमप्रभायाः पृथिव्या उपरितनप्रस्तटापेक्षया ज्ञेया । यतः
देवाण नारयाण य, एआ लेसा अवविआ दव्वे । भावपरावत्तीए, सुरनेरड्याए छल्लेसा ॥१॥ [ जी.स./गा.७४ ] ॥४२॥ दसउदहीपलिओवम-मसंखभागं जहन्निया होइ ।
तित्तीससागराइं, उक्कोसा होइ किण्हाए ॥४३॥ व्याख्या-कृष्णलेश्याया जघन्या स्थतिर्दशसागरोपमाणि पल्योपमाऽसङ्ख्येयभागयुक्तानि भवति, इयं च पञ्चमीधूमप्रभानरकपृथ्व्यपेक्षया ज्ञेया । तस्याः पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि, इयं च सप्तमीतमस्तमःप्रभाख्यनरकपृथ्व्यपेक्षयास्ति ॥४३॥
एसा नेईयाणं, लेसाणं ठिईउ वणिया होइ । तेण परं वुच्छामि, तिरियमणुस्साण देवाणं ॥४४॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org