SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका - २ व्याख्या - वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा शाठ्ययुतः अनृजुकः कथञ्चिदृजूकर्त्तुमशक्यतया, प्रतिकुञ्चकः स्वदोषप्रच्छादकतया, उपधिछद्मनेन चरतीत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि नानादेशजविनेयानुग्रहार्थं, मिथ्यादृष्टिरनार्यश्च ॥ २५॥ ५३० उप्पासगदुवाइ य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ २६ ॥ व्याख्या-उत्प्रासकं परमुत्प्रासकरं दुष्टं च रागादिभिर्यथा स्यादेवं वदनशील उत्प्रासकदुष्टवादी, स्तेनचौर, अपि चेति पूर्तौ । मत्सरः परसम्पदसहनं, सति वा वित्ते त्यागाऽभावस्तद्वान्, एतद्योगसमायुक्तो नरः कापोतलेश्यां परिणमेत् ॥ २६॥ नीयावत्ति अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥२७॥ व्याख्या - नीचैर्वृत्तिः कायवाग्मनोभिरनुत्सेकवान्, अचपलोऽमायी अकुतूहल: कुहुकादिष्वकुतूहलवान्, विनीतविनयः स्वाभ्यस्तगुर्वाद्युचितप्रतिपत्तिः, दान्तः, योगवान् स्वाध्यायादिव्यापारवान्, उपधानवान् विहितशास्त्रोपचारः ||२७|| पियधम्मे दढधम्मे, वद्यभीरु हिएसए ( अणस्सवे) । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ २८ ॥ व्याख्या - प्रियधर्माऽभिरुचितधर्मानुष्ठानो, दृढधर्मा अङ्गीकृतव्रतादिनिर्वाहकः, अवद्यभीरुः पापाचरणभीरुः, हितैषको मुक्तिगवेषकः (पाठान्तरे-हिताशयः परोपकारी, अनाश्रवो वा त्यक्तहिंसादिः) एतद्योगसमायुक्तः पुमान् तेजोलेश्यां परिणमेत् ||२८|| पयणुक्कोहमाणे य, मायालोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥२९॥ व्याख्या–प्रतनुक्रोधमानः, पुनर्यस्य मायालोभौ च प्रतनुकौ, पुनर्यः प्रशान्तचित्तः, दान्तात्मा, योगवान् उपधानवांश्च भवति ॥ २९ ॥ तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥३०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy