SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशं लेश्याध्ययनम् व्याख्या-पञ्चाश्रवा हिंसाद्यास्तैः प्रमत्तः प्रमादवान्, त्रिभिर्मनोवाक्कायैरगुप्तो गुप्त्यादिरहितः, षट्सु जीवनिकायेष्वविरतः, तदुपमर्द्दकत्वादेः, तीव्राः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावद्यव्यापारास्तेषु परिणत आसक्तः, क्षुद्रः सर्वस्याऽहितैषी कार्पण्ययुक्तो वा, सहसाऽपर्यालोच्य गुणदोषान् प्रवर्त्तते इति साहसिकचौर्यादिकृत् नरः स्यादिर्वा ॥२१॥ निर्द्धधसपरिणामो, निस्संसो अजिइंदिओ । एयजोगसमाउत्तो, किण्हलेसं तु परिणमे ॥२२॥ व्याख्या–अत्यन्तमैहिकामुष्मिकाऽपायशङ्काहीनः परिणामो यस्य स, नृशंसो जीवान् विहिंसन्न मनागपि शङ्कते, निःशंसो वा परप्रशंसारहितः, अजितेन्द्रियः, एतद्योगाः पञ्चाश्रवप्रमत्तत्वाद्यास्तैः समायुक्तः, तुः निश्चये, कृष्णलेश्यामेव परिणमेत्, तद्द्रव्यसाचिव्येन तद्रञ्जनात्तद्रूपतां भजेत्, यतः कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मन: । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥ [ ] ॥ २२ ॥ इस्सा अमरिस अतवो, अविज्जा माया अहीरियत्ता य । गेही पदोसे य सढे पमत्ते, रसलोलुए सायगवेसए य ॥ २३ ॥ ५२९ व्याख्या - ईर्षा परगुणाऽसहनं, अमर्षोऽत्यन्ताभिनिवेशः, अतपस्तपोविपर्ययः, अविद्या कुशास्त्ररूपा, माया वञ्चना, अह्नीकताऽसमाचारविषया निर्लज्जता, गृद्धिर्विषयेषु लाम्पट्यं, प्रदोषश्च प्रद्वेषः अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुर्ज्ञेयः, अत एव शठोऽलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवी, रसेषु लोलुपो रसलोलुपः, सातगवेषकः कथं मम सुखं स्यादिति बुद्धिमान् ||२३|| आरंभाओ अविरतो, खुद्द साहसिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥२४॥ व्याख्या-आरम्भात् प्राण्युपमर्दात् अविरतोऽनिवृत्तः क्षुद्रः साहसिको नर एतद्योगसमायुक्तो नीललेश्यां तु परिणमेत् ॥२४॥ वंके वंकसमायारे, नियडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छद्दिट्ठी अणारिए ॥ २५ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy