________________
५२८
श्रीउत्तराध्ययनदीपिकाटीका-२ माणानां सञ्चूर्ण्यमानानामिहाऽनुक्तोऽपि गन्धविशेषो [प्रशस्त]लेश्यानां [तिसृणामपि] पीतपद्मशुक्लाानां तारतम्येन ज्ञेयः ॥१७॥ स्पर्शमाह
जह करगयस्स फासो, गोजिब्भाए य सागपत्ताणं ।
एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१८॥ व्याख्या-यथा क्रकचस्य करपत्रस्य स्पर्शः, गोर्जिा गोजिह्वा तस्या वा, साको वृक्षविशेषस्तत्पत्राणां यथाक्रमं तेषां तिसृणां यादृशः स्पर्शस्ततोऽप्यनन्तगुणोऽतिकर्कश आद्यानां तिसृणामप्रशस्तानां लेश्यानां ज्ञेय इति ॥१८॥
जह बूरस्स व फासो, णवणीयस्स व सिरीसकुसुमाणं ।
एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ॥१९॥ व्याख्या-यथा बूरस्य कोमलवनस्पतिविशेषस्य, नवनीतस्य वा शिरीषपुष्णाणां स्पर्शोऽस्ति, एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं तिसृणां प्रशस्तलेश्यानां स्पर्शोऽस्ति ॥१९॥ परिणाममाह
तिविहो व णवविहो वा, सत्तावीसइविहेक्कसीओ वा ।
दुसओ तेयालो वा, लेसाणं होइ परिणामो ॥२०॥ व्याख्या-त्रिविधो नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा त्रिचत्वारिंशदधिकद्विशतविधो वा, लेश्यानां भवति परिणामस्तद्रूपगमनात्मकः, इह त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदेषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येक जघन्यादित्रयेण गुणना। एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि, उपलक्षणं चैतत् , एवं तारतम्यचिन्तायां न सङ्ख्यानियमः । यतः प्रज्ञापनायां-"कन्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा, नवविहं वा, सत्तावीसइविहं वा, एकासीइविहं वा, तेयालदुसयविहं वा, बहुं वा, बहुविहं वा, परिणामं परिणमइ, एवं जाव सुक्कलेसा" [ ] इति ॥२०॥
लक्षणमाह
पंचासवप्पमत्तो, तिहिं अगुत्तो छसु अविरओ य । तिव्वारंभपरिणओ, खुद्दो साहस्सिओ उ नरो ॥२१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org