SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशं लेश्याध्ययनम् ५२७ जह परिणयांबगरसो, पक्ककविच्छस्स वा वि जारिसओ । एत्तो वि अणंतगुणो, रसो उ तेऊए नायव्वो ॥१३॥ व्याख्या-तेजोलेश्याया ईदृशो रसो भवति, यथा यादृशः परिणतताम्रकरसः पक्वाम्रकफलस्य रसो भवति, पुनर्यादृशः पक्वकपिच्छस्यापि रसो भवति, ततोऽप्यनन्तगुणो रसस्तेजोलेश्याया ज्ञातव्यः, इत्यनेन किञ्चिदाम्लः किञ्चिन्मधुरश्चेति भावार्थः ॥१३॥ वरवारुणीए य रसो, विविहाण व आसवाण जारिसओ । महुमेरगस्स व रसो, इत्तो पम्हाइ परएणं ॥१४॥ व्याख्या-वरवारुणी प्रधानसुरा, तस्या वा रसो यादृशको विविधानामासवानां पुष्पमद्यानां, मधु मद्यविशेषं, मैरेयं सरकस्तयोः समाहारः, तस्य वा यादृशको रसः, इतो वरवारुण्यादिरसात् पद्मायाः, 'परएणं'ति अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते रसः, अयं च किञ्चिदाम्लकषायो मधुरश्च ।।१४।। खज्जूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तो वि अणंतगुणो, रसो उ सुक्काए नायव्वो ॥१५॥ व्याख्या-खज्र्जूरं च पिण्डखजूरादि, मृद्वीका द्राक्षा, तद्रसो यादृक् स्यात् , तथा क्षीरस्य दुग्धस्य यादृशो रसः, तथा खण्डशर्करारसो यादृक् स्यात् , एभ्यो रसेभ्योऽपि शुक्ललेश्याया अनन्तगुणो रसो ज्ञातव्यः, अत्यन्तमधुररसो ज्ञेय इत्यर्थः ॥१५।। गन्धमाह जह गोमडस्स गंधो, सुणगमडस्स जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ व्याख्या-यथा गवां मृतकं गोमृतकं मृतकशरीररं, तस्य गन्धः, श्वमृतकस्य वाऽथवा यथाऽहिमृतस्य गन्धस्ततोऽपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानामप्रशस्तानां कृष्णनीलकापोतानां गन्ध इति ॥१६॥ जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ॥१७॥ व्याख्या-यथा सुरभिकुसुमानां जातिकेतक्यादीनां गन्धः, गन्धश्च कोष्ठः पुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां पिष्य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy