________________
५२६
श्रीउत्तराध्ययनदीपिकाटीका-२ ___व्याख्या-हिङ्गलको धातुः, पाषाणधात्वादिस्तत्सङ्काशा, तरुणादित्यसन्निभा, शुकतुण्डं शुकमुखं प्रदीपश्च तन्निभा, (पाठान्तरे-सुयतुंडालत्तदीवाभा, अन्ये तुसुयतुंडग्गसंकासा) द्वयमपि स्पष्टं तेजोलेश्या तु वर्णतो रक्तेत्यर्थः ॥७॥
हरियालभेदसंकासा, हलिद्दाभेदसप्पभा ।
सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ॥८॥ व्याख्या-हरितालस्य भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि प्रकर्ष इति भेदोक्तिः, हरिद्रा पिण्डहरिद्रा तद्भेदसन्निभा, सणो धान्यभेदः, असनो बीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णतः पीतेति ॥८॥
संखंककुंदसंकासा, खीरपूरसमप्पभा ।
रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥ व्याख्या-शङ्खः, अङ्को मणिभेदः, कुन्दः कुन्दकुसुमं तत्सङ्काशा, क्षीरं दुग्धं तस्य पूर: प्रवाहः क्षीरधारा तत्समप्रभा (पाठान्तरे-तूलसमप्रभा-तूलं चार्कतूलं तत्समप्रभा) रजतं जात्यरूप्यं, हारो मुक्ताकलापस्तत्सङ्काशा, एवं शुक्ललेश्या वर्णतः शुक्ला ॥९॥ रसमाह
जह तिक्कडुयस्स रसो, तिक्खो जह हस्थिपिप्पलीए वा ।
एत्तो वि अणंतगुणो, रसो उ नीलाए णायव्वो ॥११॥ व्याख्या-नीलाया नीललेश्याया ईदृशो रसो ज्ञातव्यः, यथा यादृशस्त्रिकटुकस्य, त्रयाणां कटूनां समाहारस्त्रिकटु , त्रिकटु एव त्रिकटुकं सुण्ठीमरिचपिप्पल्यात्मकं, तस्य रसो यादृक् तीक्ष्णो भवति, पुनर्यथा हस्तिपिप्पल्या गजपिप्पल्या वा रसो यादृशो भवति, इतोऽप्येभ्योऽपि नीलाया अनन्तगुणो रसस्तीक्ष्णो भवति ॥११॥
जह तरुणअंबयरसो, तुवरकविच्छस्स वा वि जारिसओ ।
एत्तो वि अणंतगुणो, रसो उ काऊए णायव्वो ॥१२॥ व्याख्या-कापोतलेश्याया रस ईदृशो ज्ञेयः, यादृशस्तरुणाम्रकरसः, तरुणमपरिपक्वं यदाम्रकमाम्रफलं तस्य रसः, तथा तुवरं सकषायं यत्कपित्थं कपित्थफलं तस्य वाऽपि यादृशो रसस्ततोऽप्यतिकषायः ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org