________________
चतुस्त्रिंशं लेश्याध्ययनम्
५२५ मुत्कर्षापकर्षों, स्थितिमवस्थानकालं, गतिं च नरकादिकां, यतो याऽवाप्यते, आयुर्यावत्यायुष्यवशिष्यमाणे आगामिभवलेश्यापरिणाम: स्यात् , लेश्यानां तुः पूर्ती, शृणुत 'मे' ॥२॥ द्वारगाथाकिण्हा नीला य काऊ य, तेऊ पउमा तहेव य ।
सुक्कलेसा उ छट्ठी उ, नामाई तु जहक्कमं ॥३॥ व्याख्या-एतानि लेश्यानां यथाक्रमं नामानि ज्ञेयानि । प्रथमा कृष्णा १ च पुनर्द्वितीया नीला २ तृतीया कापोतनाम्नी ३ चतुर्थी तेजोलेश्या ४ पञ्चमी पद्मलेश्या ५ च पुनः षष्ठी शुक्ललेश्या ६ एवं षण्णामपि नामानि ॥३॥ वर्णानाह
जीमूतनिद्धसंकासा, गवलरिट्ठगसंनिभा ।
खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ ॥४॥ व्याख्या-स्निग्धः सजलत्वेन जीमूतस्तद्वत् सम्यक्काशते, व्यत्यये स्निग्धजीमूतसङ्कासा, गवलं महिषशृङ्ग, रिष्टो द्रोणकाकः स एव रिष्टको, यद्वारिष्टकः फलभेदः, तत्संनिभा, खञ्जनं स्नेहाभ्यक्तकटाक्षघर्षणोद्भूतं, अञ्जनं कज्जलं, नयनं नेत्रं मध्यं कृष्णं, तन्निभा तत्सदृशा कृष्णलेश्या तु वर्णमेवाश्रित्य न तु रसादीन् ॥४॥
नीलासोयसंकासा, चासपिच्छसमप्पभा ।
वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ॥५॥ व्याख्या-नीलाऽशोको वृक्षविशेषस्तत्सङ्काशा, रक्ताऽशोकव्यवच्छेदार्थं नीलविशेषणं । चासः पक्षिविशेषस्तत्पिच्छस्य समप्रभा, व्यत्ययात् स्निग्धवैडूर्यसङ्काशा नीललेश्या वर्णतः ॥५॥
अयसीपुप्फसंकासा, कोइलच्छदवसन्निभा ।
पारेवयगीयनिभा, काउलेसा उ वण्णओ ॥६॥ व्याख्या अतसी धान्यभेदस्तत्कुसुमसङ्काशा, कोकिलच्छदस्तैलघण्टकः (पाठान्तरेकोकिलच्छविस्तत्सन्निभा) पारापतग्रीवानिभा कापोतलेश्या तु वर्णतः किञ्चित् कृष्णा किञ्चिद्रक्तेति ॥६॥
हिंगुलयवण्णसंकासा, तरुणाइच्चसन्निभा । सुयतुंडपइवनिभा, तेउलेसा उ वण्णओ ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org