________________
५२४
श्रीउत्तराध्ययनदीपिकाटीका-२ ताः कृष्णनीलकापोत-तैजसीपद्मशुक्लनामानः ।
श्लेष इव वर्णबन्धस्य, कर्मबन्धस्थितिविधात्र्यः ॥१॥ [प्र.र./३८] भावलेश्यामाह
द्विविधा च भावलेश्या, अविशुद्धलेश्या कलुषद्रव्ययोगजात्मपरिणामः, तथैव विशुद्धलेश्या कषायोपशमजा कषायक्षयजा क्षायोपशमिकी च, शुक्लतेज:पद्माख्या विशुद्धा लेश्याः, अविशुद्धभावलेश्याः कृष्णनीलकापोताख्याः, सा बहुजीवसिद्धा द्विविधा नियमेन ज्ञातव्या । प्रेमणि च रागे, दोषे च द्वेषे, रागद्वेषविषयेत्यर्थः, नामादिलेश्यानां मध्ये इहाधिकारः कर्मद्रव्यलेश्याया प्रायस्तस्या अत्र वर्णादिरूपेण विचारणात् । अथ वैचित्र्यात् सूत्रकृते!कर्मद्रव्यलेश्यायां च यत् प्राग् नोक्तं तदाह-नोकर्मद्रव्यलेश्या देहाभरणादिच्छायाप्रयोगो जीवव्यापारो गृहादिषु तैलाभ्यञ्जनमन:शिलाघर्षणादिः, तेन विश्रसाजीवव्यापारनिरपेक्ष्याभ्रेन्द्रधनुरादीनां तथा वृत्तिस्तया च ज्ञातव्या भावलेश्या, उदयो विपाक [इह तूपचाराद्] उदयोत्थपरिणामो भणितः, षण्णां लेश्यानां जीवेषु , लेश्यानां अध्ययनमित्यत्र निक्षेपो नामाध्ययनादिरावश्यकवत् , नोआगमतो द्रव्याध्ययनं पुस्तकादि लिखितं, नोआगमतो भावाध्ययनं, इदं अध्यात्मनः परमार्थस्य आनयनं पृषोदरादित्वादध्ययनं । अथोपसंहरन्नुपदिशति
एयासिं लेसाणं, नाऊण सुभासुभं तु परिणामं ।
चइऊण अप्पसत्थं, पसत्थलेसासु जइयव्वं ॥१॥ [ उत्त. नि./गा.५४५] अथ सूत्रम्
लेसज्झयणं पवक्खामि, आणुपुव्वि जहक्कम ।
छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ व्याख्या-लेश्याध्ययनं प्रवक्ष्यामि आनुपूर्व्या यथाक्रम, तत्र च षण्णामपि लेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलमयानामनुभावान् रसविशेषान् शृणुत 'मे' वदतः ॥१॥
लेश्यानामादिद्वारण्याह
नामाई वण्णरसगंध-फास परिणामलक्खणं ।
ठाणं ठिई गई चायुं, लेसाणं तु सुणेह मे ॥२॥ व्याख्या-नामानि, वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभ्यादिः, स्पर्शः कर्कशादिः, परिणामो जघन्यादिः, लक्षणं पञ्चाश्रवासेवनादिः, एषां समाहारः, स्थान
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org