________________
चतुस्त्रिंशं लेश्याध्ययनम्
५२३ जाणगसरीरभवियं, तव्वइरित्तं च पोत्थगाइसुं ।
अज्झप्पस्साणयणं, नायव्वं भावमज्झयणं ॥११॥ [उ. नि./गा.५४४] व्याख्या-तत्र 'लेसाणं'ति, सूत्रत्वाल्लेश्यायाः, कोऽर्थः ? लेश्याशब्दस्य निक्षेपश्चतुर्विधः, नामादिदुविहो इत्यादि आवश्यकदीपिकावत् , तत्रागमतोऽन्य(?) लेश्याशब्दार्थज्ञाः, तत्र चानुपयुक्तो, नोआगमतो द्रव्यलेश्या त्रिधा १ ज्ञशरीरद्रव्यलेश्या, २ भव्यशरीरद्रव्यलेश्या, ३ तद्व्यतिरिक्तद्रव्यलेश्या आद्या लेश्या शब्दार्थज्ञस्याजीवा देहा १ द्वितीया येन देहेन लेश्याशब्दार्थं ज्ञास्यति सा २ तृतीया ज्ञभव्यदेहातिरिक्ता ३ सा पुणो दुविहे त्ति, सा ज्ञभव्यदेहव्यतिरिक्तद्रव्यलेश्या पुनद्विविधा कर्मणि नोकर्मणि च, तत्र कर्मण्यल्पवक्तव्या इत्यादौ । नोकर्मविषयमाह
___ नोकर्मणि कर्माऽभावरूपे भवति द्विविधा लेश्या, तुरेवार्थे, जीवानामजीवानां च, तत्रापि द्विधा जीवानां भवति ज्ञातव्या । 'भवमभवसिद्धियाणं 'मस्याऽलाक्षणिकत्वात् सिद्धशब्दस्य प्रत्येकं सम्बन्धाद्भविष्यतीति भवा भाविनीत्यर्थः [तादृशी] सिद्धिर्येषां ते भवसिद्धिका भव्यास्तेषां, अभवसिद्धिकानामभव्यानां द्विविधानां भव्याऽभव्यजीवानां भवति सप्तविधाः, कृष्णाद्याः षट् , सप्तमी देहच्छाया, अन्यत्वौदारिकौदारिकमिश्रादिभेदतः, सप्तविधत्वेन जीवशरीरस्य तच्छायैव कृष्णादिवर्णरूपाणि ।।
तथा अजीवानां 'कम्मणो'त्ति आर्षत्वान्नोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्येह सम्बन्धात् सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां च सूर्याणां च, ग्रहा भौमाद्यास्तद्गणश्च, नक्षत्राणि च कृत्तिकादीनि, ताराश्च प्रकीर्णानि ज्योतींषि ग्रहगणनक्षत्रतारास्तेषां, आभरणानि चैकावल्यादीनि, आच्छादनानि स्वर्णखचितादीनि, आदर्शका दर्पणाः, ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिर्मरकतादिः, काकिणिश्चक्रिरत्नं, मणिकाकिण्यौ तयोर्या लेशयति श्लेषयत्यात्मनि जनाक्षीणीति लेश्याऽतीवचक्षुराक्षेपिकी स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या नोकर्मणि, अत्र चन्द्रादिशब्दैस्तद्विमानानि 'तात्स्थ्यात्तव्यपदेशः' इति न्यायेनोच्यन्ते । तेषां पृथ्वीकायरूपत्वेऽपि स्वकायपरकायशस्त्रापातभवा, तत्प्रदेशानां केषाञ्चिदचेतनत्वेन अजीवद्रव्यलेश्याद्वये दशविधत्वेऽपि तेजोवद्र्व्याणां रूप्यताम्रादीनां बहूनां तच्छायाया अपि बहुतरभेदा ज्ञेयाः ।
कर्मद्रव्यलेश्यामाह-या कर्मद्रव्यलेश्या, अग्रेतनतुशब्दसम्बन्धात् सा पुनर्नियमात् षड्विधा, कृष्णा नीला कापोती तैजसी पद्मा च शुक्ला चेति कर्मद्रव्यलेश्येति सामान्येनोक्तावपि कर्मचयापचयजाता, अशुभशुभकर्मयोगाद् ये ये परिणामाः कर्मद्रव्याणि लेश्या जीवस्य तादृक् तादृक् परिणामप्रभावकारीणि । यथोक्तम्
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org