________________
चतुस्त्रिंशं लेश्याध्ययनम्
व्याख्या-तथा यः प्रतनुवादी स्वल्पभाषी, उपशान्तोऽनुद्भटतयोपशान्तकृतिः, जितेन्द्रियश्च, एतद्योगसमायुक्तः स पुमान् पद्मलेश्यां परिणमेत् ।।३०।।
अट्टरुद्दाणि वज्जित्ता, धम्मसुक्काणि झायइ ।
पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३१॥ व्याख्या-आर्त्तरौद्रे ध्याने वर्जयित्वा यो धर्म्यशुक्ले ध्याने ध्यायति, कीदृशः सन्नित्याह–प्रशान्तचित्तो दान्तात्मा समितः समितिमान् , गुप्तश्च निरुद्धसर्वात्मव्यापारो गुप्तिभिर्मनोगुप्त्यादिभिः, अत्र तृतीयार्थे सप्तमी ॥३१॥
सराए वीयराए वा, उवसंते जिइंदिए ।
एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥३२॥ व्याख्या-स च सरागोऽक्षीणाऽनुपशान्तकषायतया, वीतरागो वा ततोऽन्य उपशान्तः, विशिष्टलेश्या एवापेक्ष्यैवंस्वरूपोक्तिरिति, न देवाद्यैर्व्यभिचारः, उपशान्तो जितेन्द्रियश्च, एतद्योगसमायुक्तः पुमान् शुक्ललेश्यां परिणमेत् ॥३२।।
अथ स्थानद्वारमाह
असंखिज्जाणोसप्पिणीणं, उस्सप्पिणीणं जे समया ।
संखाईया लोगा, लेसाण हवंति ठाणाइं ॥३३॥ व्याख्या-असङ्ख्येयोऽवसप्पिण्युत्सप्पिणीनां ये समयाः, कियन्त इत्याहसङ्ख्यातीता लोकाः कोऽर्थः ? असङ्ख्येयलोकाकाशप्रदेशपरिमाणास्तावन्ति लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां सङ्क्लेशाः, शुभानां च विशुद्धयस्तत्परिमाणानीति भावः ॥३३।। इत्युक्तं स्थानद्वारं, स्थितिमाह
मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिया ।
उक्कोसा होइ ठिई, नायव्वा कण्हलेसाए ॥३४॥ व्याख्या-मुहुर्ताद्धं अन्तर्मुहूर्त्तमित्यर्थः, कालयोगे द्वितीया, तुः निश्चये, जघन्या, त्रयस्त्रिंशत्सागरोपमाणि इहोत्तरत्र च मुहूर्तशब्देन मुहूर्तेकदेश एवोक्तः, ततश्चान्तमुहूर्त्ताधिकान्युत्कृष्टा स्थितिर्भवति, एवंविधा स्थितिर्ज्ञातव्या कृष्णलेश्यायाः, इह चान्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तमेवमुत्तरत्रापि ॥३४||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org