________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
५२१ विंशतिनिर्माणनीचैर्गोत्रदेवगत्यानुपूर्वीद्वयवैक्रियाङ्गतदङ्गोपाङ्गानां अष्टषष्ट्युत्तरप्रकृतीनां सागराः सप्तभागौ द्वौ पल्योपमाऽसङ्ख्येयभागोनौ, वैक्रियषट्कस्य सागरोपमसहस्रं सप्त भागौ द्वौ पल्याऽसङ्ख्येयभागोनौ, आहारकतदङ्गोपाङ्गाऽर्हन्नाम्नामन्तःसागरकोटी जघन्योत्कृष्टा च, किन्तूत्कृष्टातः सङ्ख्येयगुणहीना जघन्या ज्ञेयाः, एवं कर्मणां प्रदेशाग्रं क्षेत्रकालौ चोक्तौ । अथ भावमाश्रित्याह
सिद्धाणणंतभागे, अणुभागा भवंति उ।
सव्वेसु वि पएसग्गं, सव्वजीवे अइच्छियं ॥२४॥ व्याख्या-सिद्धानां मुक्तानामनन्तमो भागोऽनुभागा रसभेदा भवन्ति, तुः पूर्ती, अयं चानन्तभागोऽनन्तसङ्ख्य एव, ते चानुभागा अनन्ता ज्ञेयाः, प्रदेशपरिमाणमाह-सर्वेष्वनुभागेषु प्रदेश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं 'सव्वजीवे अइच्छियं'त्ति सर्वजीवेभ्यो भव्याऽभव्येभ्योऽतिक्रान्तं, ततोऽपि तेषामनन्तगुणत्वात् ॥२४॥
एवं [प्रकृत्युकत्या] प्रकृतिबन्ध(न्ध) प्रदेशाग्रोक्त्या प्रदेशबन्ध(न्धं) कालोक्त्या स्थितिबन्धं भावेनानुभागबन्धमुक्त्वा कर्मबन्धायोपसंहरन्नुपदिशति
तम्हा एएसि कम्माणं, अणुभागा वियाणिया ।
एएसिं संवरे चेव, खवणे य जए बुहे ॥२५॥ त्ति बेमि व्याख्या-यस्मादीदृशः प्रकृतिबन्धाद्यास्तस्मादेतेषां कर्मणां ज्ञानावृत्त्यादीनामनुभागान् प्रकृतिबन्धादींश्च विज्ञाय विशेषेण कटुविपाकत्वेन भवहेतुत्वेन ज्ञात्वाऽनुभागोक्तिरशुभानुभागानां प्रायो भवनिर्वेदहेतुत्वादेतेषां कर्मणां संवरेग्नुपपत्तानां ग्रहणनिरोधे, चः समुच्चये, एवेति निश्चये, क्षपणे चात्तानां निर्जरणे यतेत यत्नं कुर्यात् बुधस्तत्वज्ञः, इति समाप्तौ, ब्रवीमीति प्राग्वत् । अत्र नियुक्ति:
__ पगइठिइमणुभागे, पएसकम्मं च सुट्ट नाऊणं ।
एएसिं संवरे खलु, खवणे उ सयावि जइयव्वं ॥१॥ [उ.नि./गा.५३३] गाथा स्पष्टैव ॥२५॥
इति कर्मप्रकृत्याख्यं त्रयस्त्रिमशमध्ययनमुक्तम् ॥३३॥ १. नीचैर्गोत्राणां षट्षष्ट्युत्तरप्रकृतीनां सागरोपमसप्तभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ आहारकतदङ्गोपाङ्गतीर्थकरनाम्नामन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्येवासां तिसृणां स्थितिरभिहिता, सत्यं, तथाऽपि ततः सङ्ख्येयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः । उत्त.बृ.वृत्तौ गा.२३ मध्ये ॥ सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org