SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ५२० श्रीउत्तराध्ययनदीपिकाटीका-२ उदहिसरिसनामाणं, सत्तरं कोडिकोडीओ। मोहणिज्जस्स उक्कोसा, अंतोमुहत्तं जहणिया ॥२१॥ व्याख्या-उदधिसदृशनाम्नां सप्ततिः कोटीकोट्यो मोहनीयस्योत्कृष्टा स्थितिः, अन्तर्मुहूर्तं च जघन्यिका ॥२१॥ तेत्तीससागरोवमा, उक्कोसेणं वियाहिया । ठिई आउकम्मस्स, अंतमुहुत्तं जहणिया ॥२२॥ व्याख्या-त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टानि आयुषः स्थितिः, आर्षे सुपो लुक्, उत्कृष्टेनाख्याता स्थितिः, तुः पूर्ती, आयुःकर्मणोन्तर्मुहूर्तं जघन्यिका च ॥२२॥ उदहिसरिसनामाणं, वीसई कोडिकोडीओ । नामगोयाण उक्कोसा, अट्ठमुहत्तं जहणिया ॥२३॥ व्याख्या-उदधिसदृशनाम्नां विंशतिः कोटीकोट्यो नामगोत्रयोरुत्कृष्टा । अष्टमुहूर्त्ता च जघन्यिकेति ।।२३।। इत्थमुत्कृष्टा जघन्या चावस्थितिमूलविषया सूत्रकारेणोक्ता, उत्तरप्रकृतिविषया प्रदर्श्यते । तत्रोत्कृष्टा स्त्रीवेदसातवेद्यनृगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदशसागरोपमकोटीकोट्यः, षोडशकषायाणां चत्वारिंशत् , क्लीबाऽरतिभयशोकजुगुप्सानां पञ्चानां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंहननसंस्थानशुभखगतिस्थिरसुभगसुस्वरादेययश:कीयुच्चौर्गोत्राणां पञ्चदशानां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोादश, सातिसंस्थाननाराचसंहननयोश्चतुर्दश, कुब्जार्धनाराचयोः षोडश, वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्माऽपर्याप्तसाधारणानामष्टानामष्टादश, तिर्यगायुषः पल्योपमत्रयं, शेषाणां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः । जघन्या तु निद्रापञ्चकाऽसातावेद्यानां षण्णां सागरसप्तभागास्त्रयः पल्याऽसङ्ख्येयभागोनाः, सातस्य तु द्वादश मुहूर्ताः, मिथ्यात्वस्य पल्याऽसङ्ख्येयभागोनं सागरोपमं, आद्यद्वादशकषायाणां चत्वारः सागरोपमाः सप्तभागास्तावतैवोनाः, क्रोधस्य सज्वलनस्य मासद्वयं, मानस्य मासो, मासार्द्ध मायायाः, पुंवेदस्याष्टौ वर्षाणि, शेषनोकषायनतिर्यग्गतिजातिपञ्चकौदारिकशरीरतदङ्गोपाङ्गतैजसकार्मणसंस्थानषट्कसंहननषट्कवर्णचतुष्कतिर्यग्मनुष्यानुपूर्व्यगुरुलघूपघातपराघातोच्छ्वासातपोद्योतशुभाशुभखगतियशःकीर्तिवर्जनसादि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy