________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
५१९ गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पञ्चदिसि सिय छदिसिं करेड् । बेइंदियतेइंदियचउरिंदियपंचेन्दिय नियमा छद्दिसिं" [ ] ति । तच्च षड्दिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेषु आकाशस्यात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं स्यात् , जीवास्तत्सङ्ग्रह्णन्ति, तत्स्थकर्माणून् प्रत्यात्मनो ग्रहणहेत्वविशेषात् , तथा सर्वं समस्तं आयुर्बन्धेऽष्टविधं, अन्यथा सप्तविधं ज्ञानावरणादि नत्वेकमेव ।।
आत्मा हि सर्वप्रकृतियोग्याणून् सामान्येनादाय तान्येवाध्यवसायविशेषात् पृथग् पृथग् ज्ञानावृत्त्यादित्वेन परिणमयति, तच्चैवंविधं कर्म सङ्ग्रहीतं सत् किं कैश्चिदेवात्मप्रदेशैर्बद्धं स्यात् ? यद्वा सर्वेणात्मनेत्याह-सर्वेण समस्तेनात्मना बद्धमेव बद्धकं क्षीराम्भोवदात्मप्रदेशैः श्लिष्टं मिथः सम्बद्धानामात्मप्रदेशानां सहैव योगौ स्तः, नत्वेकैकेन ताभ्यां च कर्मबन्ध इति सर्वात्मना ग्रहणबन्धौ स्यातां । यद्वा 'सव्वेसु वि पएसेसु'त्ति सुब्व्यत्ययात्तत्सर्वैरपि प्रदेशैरात्मनः सर्वं सर्वप्रकृतिरूपं सर्वेण प्रकृतिस्थित्यादिना प्रकारेण बद्धकम् ॥१८॥ कालमाह
उदहीसरिनामाणं, तीसई कोडीकोडीओ ।
उक्कोसिया होइ ठिई, अंतोमुहुत्तं जहन्निया ॥१९॥ व्याख्या-उदधिः समुद्रस्तेन सदृक् नामाह्वानमेषां तानि उदधिसदृक्नामानि सागरोपमाणि तेषां त्रिंशत्कोटीकोट्यः उत्कृष्टा भवति स्थितिः, मुहूर्त्तस्यान्तरं [अन्तमुहूर्तं] मुहूर्त न्यून जघन्यिका ॥१९॥ केषामित्याह
आवरणिज्जाणं दुण्हं पि, वेयणिज्जे तहेव च ।
अंतराए य कम्मंमि, ठिइ एसा वियाहिया ॥२०॥ व्याख्या-आवरणीययोर्ज्ञानावरणदर्शनावरणीययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । इह षष्ठीप्रक्रमेऽपि वेदनीयादौ सप्तमी तत्त्वतोऽथै क्याद्वेद्यान्तराययोः, यतः
राजा भर्ता मनुष्यस्य, तेन राज्ञः स उच्यते ।
वृक्षस्तिष्ठति शाखासु, भवेत्तत्रेति तस्य ताः ॥१॥[ ] तथा-वेद्यस्य जघन्या स्थितिरन्तर्मुहूर्तं सूत्रकारेणोक्ता, अन्यैस्तु जघन्या द्वादशमुहूर्ता ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org