________________
५१८
श्रीउत्तराध्ययनदीपिकाटीका-२ ___व्याख्या-सर्वेषामपि कर्मणां ज्ञानावरणादीनां प्रदेशाग्रं अणुमानमनन्तमेवाऽनन्तकं, अनन्तपरमाणुनिष्पन्नत्वाद्वर्गणानां, तच्चानन्तकं ग्रन्थिरिव ग्रन्थिर्घनो रागद्वेषपरिणामस्तं गच्छन्तीति ग्रन्थिगास्ते च ते सत्वाः, ये ग्रन्थिदेशं गत्वा तद्भेदाऽकृतेर्न कदाप्यग्रे गन्तारस्ते चाऽभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथान्तर्मध्ये सिद्धानां सिद्धिप्राप्तानां आख्यातं जिनैः, सिद्धेभ्यो हि कर्माणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वात् , अतः सङ्ख्यामपेक्ष्य सिद्धान्तर्वति तदनन्तकमुच्यते, एकसमयग्राह्यकर्माण्वपेक्षं चैतत् । उक्तं हि-"तेयाकम्मपोग्गला अभव्वसिद्धिएहिं अणन्तगुणा, सिद्धाणमणन्तभागमेत्ता एकेकम्मि समए गहणमिति । [ ] (पाठान्तरेगंठिपसत्ताऽणाइ 'त्ति-ग्रन्थिप्रसक्तानां घनरागद्वेषपरिणामं ग्रन्थि तादृक्परिणामाऽभावादऽभिन्दानानां सत्त्वानां यो बन्धोऽनाद्यन्त आद्यन्तहीनो ज्ञेयः, सिद्धानां पुनर्भविष्यत्सिद्धीनां बन्धोऽनादिरपि सान्तस्तादृक्परिणामतो व्याख्यातोऽर्हद्भिः ॥१७॥
क्षेत्रमाह
सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं ।
सव्वेसु वि पएसेसु, सव्वं सव्वेण बद्धगं ॥१८॥ व्याख्या सर्वजीवानामेकेन्द्रियाद्यशेषाणां कर्म ज्ञानावृत्त्यादि, तुः पूर्ती, सङ्ग्रहे सङ्ग्रहणक्रियायां भवति, यद्वा सर्वजीवाः, णेति वाक्यभूषायां, कर्म संगहे'ति संगृह्णन्ति, कीदृशं सदित्याह-'छद्दिसागय'ति षण्णां दिशां समाहार: षड्दिशं, तत्र गतं स्थितं षड्दिशगतं, अत्र च दिशः पूर्वाद्या ऊर्ध्वाधोदिग्द्वयं चेति, इयं चात्मावष्टब्धाकाशप्रदेशाऽपेक्षयोच्यते । यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्मपुद्गलास्ते रागादिस्नेहयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढभिन्नदेशस्य, तद्भावपरिणामाऽभावात् , यथा ह्यग्निः स्वदेशस्थितान् प्रायोग्यपुद्गलानात्मभावेन परिणमयति, एवं जीवोऽपि, अल्पत्वाच्चेह विदिशामविवक्षितत्वेन षड्दिशगतमित्युक्तिः, यतो विदिस्थितमपि कर्मात्मा लाति । उक्तं हि गन्धहस्तिना-"सर्वासु दिक्ष्वात्मावधिकासु व्यवस्थितान् पुद्गलानादत्त" [ ] इति । तथा क्षेत्रप्रस्तावे यद्दिगुक्तिस्तत्तासां व्योमाऽभेदज्ञप्त्यै । तथा षड्दिग्गतं द्वीन्द्रियादीनेवाश्रित्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् , तथागम:-"जीवा णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ ? [चउद्दिसिं करेइ पंचदिसिं करेइ] छद्दिसिं करेइ गोयमा ! सिय तिदिशि सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेति । एगिन्दियाणं भंते तेयाकम्मपोग्गलाणं गहणे करेमाणे किं तिदिसिं जाव छद्दिसिं करेइ,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org