________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
५१७ सुयअमएणं लाभअमएणं उच्यागोयकम्मपभोगवं होइ । णीयागोयकम्मसरीरपुच्छा"गोयमा जाइमएणं कुलमएणं' इत्याद्यालापका विपर्ययेणाष्टौ यावत् "णीयागोयकम्मपभोगवं होइ" [ ] त्ति ॥१४॥
दाणे लाभे य भोगे य, उवभोगे वीरिए तहा ।
पंचविहमंतरायं, समासेण वियाहियं ॥१५॥ व्याख्या-दीयते इति दानं, तस्मिन् , लभ्यते इति लाभस्तस्मिन् , भुज्यते सकृदुपयुज्यते इति भोगः, सकृद्रोग्यपुष्पाहारादिविषयः, उपेत्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यते इत्युपभोगः, पुनरुपभोग्यगृहस्त्र्यादिविषयः, उक्तं हि
सइ भुज्जइ त्ति भोगो, सो पुण आहारपुप्फमाइओ । उवभोगो उ पुणो पुण, उवभुज्जइ भवणविलयाई ॥१॥ [क.प्रा./१६५गा.]
तस्मिन् , तथा विशेषेण ईर्यते चेष्ट्यतेऽनेनेति वीर्य, तस्मिन् , चः समुच्चये, यदन्तरायं तत्पञ्चविधमन्तरायं समासेन व्याख्यातं । विस्तरतस्तु भेदानन्त्यमपि तरतमादिभावैः, तत्र यस्मिन् सति चतुरे ग्रहीतरि, देये वस्तुनि, तस्य फलं जानन्नपि दाने न प्रवर्तते तदानान्तरायं । यस्मिन् विशिष्टेऽपि दातरि सति याचनानिपुणोऽपि याचको न लभते तल्लाभान्तरायं । पुनविभवादौ सत्यपि भोक्तुं न शक्यते तद्भोगान्तरायं । येन उपभोगयोग्ये वस्तुनि सति उपभोक्तुं न शक्यते तदुपभोगान्तरायं । यद्वशाद्बलवान् नीरोगस्तरुणोऽपि तृणमपि भक्तुं न शक्नोति तस्य पुरुषस्य वीर्यान्तरायं कर्म ज्ञेयम् ॥१५॥
एयाओ मूलपयडीओ, उत्तराओ य आहिया ।
पएसग्गं खित्तकाले य, भावं वा उत्तरं सुण ॥१६॥ व्याख्या-एता मूलप्रकृतयो ज्ञानावृत्त्याद्याः, उत्तरप्रकृतयः श्रुतावृत्त्याद्या आख्याताः, प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, "खित्तकाले य'त्ति क्षेत्रकालौ च, तत्र क्षयन्ति निवसन्ति तस्मिन्निति क्षेत्रमाकाशं, कालश्च बद्धस्य कर्मणो जीवप्रदेशाऽविचटने स्थितिः, भावं चानुभागं कर्मपर्यायं चतुःस्थानिकादिरसं, अत उत्तरमिति अतः प्रकृत्यभिधानादुत्तरं शृणु कथ्यमानम् ।।१६।। तत्रैकसमयग्राह्यं कर्मप्रदेशाग्रमाह
सव्वेसिं चेव कम्माणं पएसग्गमणंतयं । गंठियसत्ताइयं च, अंतो सिद्धाण आहियं ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org