________________
५१४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-मकारोऽलाक्षणिकः, चक्षुश्चाऽचक्षुश्चावधिश्च चक्षुरचक्षुरवधिरिति समाहारः, तस्य दर्शनं, ततश्चक्षुर्दर्शने चक्षुषा रूपासामान्यग्रहणे, अचडूंषि चक्षुःसदृशानि शेषेन्द्रियमनांसि, तद्दर्शने, तेषां स्वस्वविषयसामान्यबोधे, अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे, तथा 'केवलेय'त्ति केवलदर्शने सर्वद्रव्यपर्यायाणां सामान्यबोधे, आवरणं तच्चक्षुर्दर्शनावरणादि, [एवमित्यनेन] निद्रापञ्चकचक्षुर्दर्शनावरणादिचतुष्केण, तुः पूर्ती, नवविकल्पं नवभेदं दर्शनावरणं भवति ॥६॥
वेयणिज्जं वि य दुविहं, सायमसायं च आहियं ।
सायस्स उ बहूभेया, एमेवासायस्स वि ॥७॥ व्याख्या-वेदनीयं कर्मापि, चेति पूर्ती, द्विविधं द्विभेदं । स्वाद्यते आह्लादकत्वेनास्वाद्यते इति निरुक्त्या सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निबन्धनं कर्मैवमुक्तम्, असातं दुःखं चाख्यातं जिनैः, सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोः, तद्धेतुभूतभूतानुकम्पादिबहुभेदत्वात् , एवमेव बहवोऽसातस्यापि, दुःखात्रों शोकतापादित तुबहुविधत्वात् ॥७॥
मोहणिज्जं पि दुविहं, दंसणे चरणे तहा ।
दंसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , दर्शने तत्त्वरुचिरूपे चरणे चारित्रे [तथा], दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनमोहनीयं त्रिविधमुक्तं, चरणे चरणमोहनीयं द्विविधं भवेत् ॥८॥ दर्शनमोहनीयत्रैविध्यमाह
सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य ।
एयाओ तिन्नि पगडीओ, मोहणिज्जस्स दंसणे ॥९॥ व्याख्या-सम्यग्भावः सम्यक्त्वं शुद्धदलिकानि, यदुदयेऽपि तत्त्वरुचिः स्यात् , चैवेति पूर्ती, मिथ्याभावो मिथ्यात्वमशुद्धदलिकानि, यैरतत्त्वे तत्त्वमिति स्यात् । सम्यग्मिथ्यात्वं शुद्धाऽशुद्धदलिकानि, यैरुभयस्वभावता जन्तोः स्यात् , इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच्च दलिकेषु एतव्यपदेशः, एतास्तिस्त्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ॥९॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org