________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
५१३ कुलालादिवन्मृद्रव्यमनेनात्मेति गोत्रं । अन्तरा दातृग्राहकयोरन्तर्भाङ्गागारकवद्विघ्नहेतुनाऽयते गच्छतीत्यन्तरायं । तथैव च, एवं [एतानि] कर्माण्यष्टैव, तुः पूत्तौं, समासतः सक्षेपेण । विस्तरतस्तु यावन्तो जन्तुभेदास्तावन्त्येव तानि, इत्यनन्तान्येवेति भावः । अत्र च ज्ञानोपयोग एव सर्वलब्धीनामाद्यो हेतुरिति प्राधान्यादादौ ज्ञानावरणं, ततो दर्शनावरणं, ततः केवलिनोऽप्येकविधबन्धकस्य सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयं, ततोऽपि प्रायः संसारिणामिष्टाऽनिष्टविषयसम्बन्धात् सुखदुःखे, इष्टाऽनिष्टता च रागद्वेषाभ्यां, ततो मोहनीयं मोहप्रकर्षापकर्षभावित्वात् , आयुर्निबन्धनानां बह्वारम्भपरिग्रहत्वादीनां तदुद्भवमायुःकर्म, तत्प्रायो गत्यादिनामोदयाऽविनाभावीति ततो नामकर्म, ततो नरकादिनामोदयसहभाव्येव गोत्रकर्मोदय इति गोत्रं । तस्मादुच्चनीचभेदभिन्नात् प्रायो दानादिलब्धिभावाऽभावौ, तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति ततोऽन्तरायम् ॥३॥ इत्थं कर्मणो मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं अभिणिबोहियं ।
ओहिनाणं च तइयं, मणनाणं च केवलं ॥४॥ व्याख्या-ज्ञानावरणं पञ्चविधं, आवार्यभेदादेवावरणस्य भेद इत्यावार्यभेदस्य ज्ञानस्यैव भेदानाह-श्रुतमाभिनिबोधिकमवधिज्ञानं तृतीयं, मनोज्ञानं, केवलं च, आवरणमिति शब्दः प्रत्येकं योज्यः ॥४॥
अथ दर्शनावरणीयकर्मणो भेदानाह
निद्दा तहेव पयला, निद्दानिद्दा य पयलपयला य ।
तत्तो य थीणगिद्धी उ, पंचमा होइ नायव्वा ॥५॥ व्याख्या-निद्रा सुखप्रतिबोधरूपा, यतः-"सुहपडिबोहो निद्दा" [ ] त्ति तथैवेति निद्रावत् प्रचला, या स्थितस्योपविष्टस्य च समायाति, यतः-"पयला होइ ठियस्स उ" [ ] त्ति निद्रानिद्राऽवगाढनिद्रा दुःखप्रतिबोधरूपा, यतः-"दुहपडिबोहो य निद्दनिद्द" [ ] त्ति प्रचलाप्रचला चङ्क्रम्यमाणस्य चलतो गाढनिद्रा, यतः-"पयलापयला उ चंकमउ" [ ] त्ति ततः प्रकृष्टतराऽशुभानुभावा स्त्याना पुष्टा ऋद्धिद्धिर्वा यस्यां सा स्त्यानद्धिः, एतदुदये केशवार्द्धबलो बहुरागद्वेषोदयो जन्तुः स्यात् , इयं दिनचिन्तितार्थसाधिनी पञ्चमी ज्ञेया, तुः पूत्तौ ॥५॥
चक्खुमचक्खूओहिस्स-दसणे केवले य आवरणं । एवं तु नवविगप्पं, नायव्वं दंसणावरणं ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org