SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम् ॥ प्रमादाद्यैः कर्मप्रकृतयो बद्ध्यन्ते, इति त्रयस्त्रिंशं कर्मप्रकृत्यध्ययनमाह अट्ठ कम्माई वोच्छामि, आणुपुचि जहक्कम । जेहिं बद्धो अयं जीवो, संसारे परिवत्तइ ॥१॥ व्याख्या-[अष्ट इत्यष्टसङ्ख्यानि] क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि, वक्ष्यामि आनुपूर्व्या, सा च पश्चानुपूर्वादिरपि स्यादित्याह-यथानुक्रम पूर्वानुपूर्व्या, यैः कर्मभिर्बद्धः श्लिष्टोऽयमिति प्रतिप्राणिस्वसंवेद्यो जीवः संसारे परिवर्त्तते, अज्ञतादिविविधपर्यायानुभवतोऽन्यथाऽन्यथा स्यात् । (पठान्तरे-परिभ्रमति वा) ॥१॥ नाणस्सावरणं चेव, सणावरणं तहा। वेयणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ व्याख्या-ज्ञायतेऽनेनेति ज्ञानमवबोधस्तदाव्रियते सदप्याच्छाद्यतेऽनेन पटेनेव प्रकाश इत्यावरणीयं, 'कृत्ये पुटो बहुलमिति वचनात् करणेऽनीयः' । दृश्यतेऽनेनेति दर्शनं सामान्यबोधः, तदाव्रियते, प्रतीहारेणेव नृपदर्शनमनेनेति दर्शनावरणं, तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदति वेदनीयं । तथा मोहयति जनान् मद्यपानवद्विचित्रताजननेनेति मोहः । आयात्यागच्छति स्वकृतकर्मावाप्तनरकादिकुगतोनिस्सरितुमनसोऽप्यात्मो निगडवत् प्रतिबन्ध इत्यायुः, तदेव कर्मेत्यायुःकर्म ॥२॥ नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेयाई कम्माई, अटेव उ समासओ ॥३॥ व्याख्या-तथैव नमयति गत्यादिविविधभावानुभावं प्रवणयति चित्रकर इवेभाऽश्वादिभावं प्रति रेखाभिरिति नामकर्म । चः समुच्चये । गीयते शब्द्यते उच्चावचशब्दैः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy