________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
५११ अनाश्रवो, ध्यानेन शक्लेन या समाधिः स्वास्थ्यं, तेन युक्तः, आयुर्नामगोत्रवेद्यानां च क्षये मोक्षमुपैति, शुद्धो विगतकर्ममलः ॥१०९।।
मोक्षगतश्च यादृक् स्यात्तदाहसो तस्स सव्वस्स दुहस्स मुक्को, जं वाहई सययं जंतुमेयं । दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो ॥११०॥
व्याख्या-स मोक्ष प्राप्तस्तस्माज्जातिजरादेः सर्वस्माहुःखान्मुक्तः स्यात् , यद् दुःखं बाधते सततं जन्तुमेतं प्रत्यक्षं दृश्यमानं, दीर्घाणि स्थितितः कर्माणि, तान्येवामया रोगास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तोऽत एव प्रशस्तः प्रशंसाऽहंस्ततो दीर्घामयाऽभावाद्भवत्यत्यन्तसुखी, तत एव कृतार्थः कृतसकलकृत्यः सर्वसुखमयत्वात् ॥११०||
अथाध्ययनार्थं निगमयतिअणादिकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंत सुही भवंति ॥१११॥ त्ति बेमि
व्याख्या अनादिकालप्रभवस्य सर्वदुःखस्यैष प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातः, यं दुःखप्रमोक्षमार्ग समुपेत्य सम्यक् प्रतिपद्य सत्त्वाः क्रमेणोत्तरोत्तरगुणप्रतिपत्तिरूपेणाऽत्यन्तसुखिनो भवन्ति, इति समाप्तौ, ब्रवीमीति प्राग्वत् ॥१११॥
इति द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनमुक्तम् ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org