________________
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या एवं स्वस्यात्मनः सङ्कल्पा रागद्वेषमोहाध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनास्तासूपस्थितस्योद्यतस्य सञ्जायते 'समय'ति समता माध्यस्थ्यं, सर्वानिन्द्रियार्थान् शब्दादीन् सङ्कल्पयतश्च, यथा नैते शब्दाद्याः कर्मबन्धहेतवः, किन्तु रागादय एवेति । यद्वा समता मिथस्तुल्याऽध्यवसायता, सा चाऽनिवृत्तिबादरसम्परायगुणस्थाने एव, एतत्प्रपतॄणां बहूनामप्येकरूपाऽध्यवसायत्वात् , तथाऽर्थान् जीवादीन् सङ्कल्पयतश्च शुभध्यानेनाऽध्यवस्यतस्तत इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णा, लोभसमतायां द्विधाप्याप्तायां गुणस्थानचटनेन क्षीण एव लोभः । यद्वा उक्तरीत्या समकमेककालं उपस्थितस्योद्यतस्य रागादिजयाय, यद्वा समयं सिद्धान्तं प्रति उपस्थितस्य तदुक्ताऽनुष्ठानोद्यतस्य, स्वसङ्कल्पानां रागादीनां विकल्पनं विशेषेण छेदनं आशु आशु सञ्जायते । यतः
सामर्थ्य वर्णनायां च, छेदने करणे तथा ।
औपम्ये अधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥[ ] ॥१०७|| ततःस वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेई, जं चंतरायं पकरेइ कम्मं ॥१०८॥
व्याख्या-स प्रहीणतृष्णो वीतरागः स्यात् , तृष्णा लोभस्तत्क्षये च क्षीणकषायगुणस्थानाप्तिरिति कृतसर्वकृत्य इव प्राप्तप्रायत्वादनेन मुक्तौ, क्षपयति ज्ञानावरणं क्षणेन समयेन, तथैव यदर्शनमावृणोति तदर्शनावरणं, यच्चान्तरायं दानादिलब्धिविघ्नं प्रकरोति तदन्तरायकर्म च क्षपयति । स हि क्षपितमोहनीयस्तीर्णभवाब्धिरिव श्रमोपेतो विश्रम्यान्तर्मुहूर्तं तद्विचरमसमये निद्राप्रचले क्षपयति, चरमसमये च ज्ञानावरणादित्रयम् ॥१०८॥
ततःसव्वं तओ जाणइ पासई य, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥१०९॥
व्याख्या-सर्वं ततो ज्ञानावरणादिक्षयाज्जानाति विशेषेण, द्वितीयसमये पश्यति च सामान्येन, यतः-प्रज्ञप्तौ-"जं समयं जाणाइ नो तं समयं पासइ" तथा "केवली णं भंते ! इमं रयणप्पभं पुढविं अगारेहिं पमाणेहिं हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ, नो तं समयं पासइ हंत गोयमा केवली णं" इत्यादि । अमोहनो मोहरहितः स्यात् , निरन्तरायः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org