________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
५०९ किमुतान्यमित्यर्थः, एवमन्यानपि रागद्वेषहेतूंस्त्यजेत् , एवं सिद्धं रागद्वेषोद्धरणं, विपर्यये दोषोक्तिः ॥१०४॥
दोषान्तरमाहतओ से जायंति पओयणाई, निमज्जिउं मोहमहन्नवंसि । सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उज्जमए य रागी ॥१०५॥
व्याख्या-ततो विकारापत्तेरनु 'से' तस्य प्रयोजनानि विषयसेवाहिंसादीनि जायन्ते, अन्तर्भावितण्यर्थत्वान्निमज्जयितुं स्वयमेव स्वं मोहमहार्णवे, यैर्जन्तुर्मोहाब्धौ मज्यते, स ह्युत्पन्नविकारत्वान्मूढ एवासीत् , विषयसेवनायैस्तु कार्यैः सुतरां मुह्यति, किम्भूतस्य तस्य ? इत्याह-सुखेषिणो दुःखस्य विमोचनार्थं विनोदनार्थं वा, सुखेषितायां हि दुःखत्यागाय विषयसेवादिकार्यसम्भवः, कदाचिदीदृक् कार्योत्पत्तावपि तत्रायमुदासीनः स्यादत्रोच्यते-तत्प्रत्ययमुक्तरूपकार्यनिमित्तं, चस्य एवार्थत्वात् उद्यच्छत्येव तत्प्रवृत्तावुत्सहते एव, रागी द्वेषी च सन् ॥१०५॥
किमिति रागद्वेषवत एव सकलाप्यनर्थपरम्परोच्यते ? उच्यतेविरज्जमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा । न तस्स सव्वे वि मणुन्नयं वा, निव्वत्तयंती अमणुन्नयं वा ॥१०६॥
व्याख्या-विरज्यमानस्याऽद्विषतश्च पुनरिन्द्रियार्थाः शब्दाद्यास्तावत्प्रकारा लोकसिद्धाः खरमधुरादिभेदैर्बहुभेदाः, न तस्य नरस्य सर्वेऽपि मनोज्ञतां वा अमनोज्ञतां वा निर्वर्त्तयन्ति कुर्वन्ति, स्वरूपेण हि रूपादयो न मनोज्ञताऽमनोज्ञते कर्तुं क्षमाः, किंतु रक्तेतरनराशयादेव । उक्तं चान्यैरपि
परिव्राटकामुक-शुनामेकस्यां प्रमदातनौ ।
कुणपं कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः ॥१॥[ ] ततो वीतरागस्य तत्कार्यहेत्वभावात् कथममी शब्दाद्या मनोज्ञताममनोज्ञतां वा कुर्युः ? तदभावे च कथं विषयसेवााक्रोशदानादिकार्योत्पत्तिः ? एवं पूर्वं समस्य मनोज्ञाऽमनोज्ञरूपादीनामकिञ्चित्करत्वमुक्तं, इह तु तस्येष्टाऽनिष्टत्वे न स्त एवेत्युच्यते ॥१०६॥
उपसंहरन्नाहएवं ससंकप्पविकप्पणासु, संजायइ समयमुवट्ठियस्स । अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥१०७॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org