________________
५०८
श्रीउत्तराध्ययनदीपिकाटीका-२ 'दुगुंछं' इति जुगुप्सां विचिकित्सां, अरतिमस्वास्थ्यं, रतिं विषयासक्तिं, हास्यं भयं शोकं पुंस्त्रीवेदं नपुंसकवेदं, तत्र शोकं प्रियवियोगजं मनोदुःखं, पुंवेदः स्त्रीविषयाभिलाषः, स्त्रीवेदः पुरुषाभिष्वङ्ग, नपुंसकवेदश्चोभयाभिलाषरूपस्तान् , तथैवाऽन्यानपि विविधान् भावान् हर्षविषादादीन् प्राप्नोतीत्यग्रेतनगाथया सह सम्बन्धः ॥१०२॥
आवज्जई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । अण्णे य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१०३॥
व्याख्या-आपद्यते प्राप्नोति एवमनुरागादिवत्ताप्रकारेणाऽनेकरूपानन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन वा, एवंविधानुक्तप्रकारान् विकारान् , कामगुणेषु सक्तो द्विष्टश्चैतत्प्रभवान् क्रोधादिकृतान् विशेषान् परितापदुर्गतिपातादीन् प्राप्नोतीति सम्बन्धः, कथम्भूतोऽसावित्याह-कारुण्यास्पदीभूतो दीनो, मध्यमपदलोपीसमासोऽत्र, अत्यन्तदीन इत्यर्थः, ह्रीमान् , कोपाद्यापन्नो हि प्रीतिविनाशादिकमिहैवानुभवन् , परत्र च तद्विपाकमतिकटुकं च परिभावयन् प्रायोऽतिदैन्यं लज्जां च भजते । आर्षत्वाद् द्वेष्यः सर्वस्याऽप्रीतिकृत् ॥१०३॥
यतश्चैवं रागद्वेषावेव दुःखमूलमतः प्रकारान्तरेण तयोरुद्धरणोपायं तद्विपर्यये दोषं
चाह
कप्पं न इच्छेज्ज सहायलिच्छू, पच्छाणुतावेण य तवप्पभावं । एवं विकारे अमियप्पगारे, आवज्जइ इंदियचोरवस्से ॥१०४॥
व्याख्या-कल्पते स्वाध्यायादिक्रियासु क्षमः स्यादिति कल्पो योग्यस्तमिति, अपेर्गम्यत्वात् कल्पमपि, किं पुनरकल्पं ? शिष्यादि नेच्छेत् , सहायलिप्सुर्ममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , पश्चादिति व्रतस्य तपसो वाङ्गीकारादुतरकालमनुतापः, किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापो यस्य स पश्चात्तापः, सम्भूतयतिवत् भवान्तरे भोगेच्छुस्तपःप्रभावं चेच्छन् , इहैव वाघमर्षोंषद्धयादिलब्धिरस्तु, प्रेत्य च चक्रितेत्यादि नेच्छेत् । किमेवं निषिद्धयते ? इत्याह-एवं विकारान् दोषान् अमितप्रकारानापद्यते, कः ? इत्याह-इन्द्रियचौरवश्यः पुमान् , इन्द्रियाणि चौरा धर्मसर्वस्वहरणादिन्द्रियचौरास्तद्वश्य इन्द्रियचौरवश्यः, इन्द्रियवशस्य ह्यवश्यं भावी चित्तविप्लवोऽपि, एवं ब्रुवतोऽयमाशयः-तदनुग्रहबुद्ध्या कल्पं, पुष्टालम्बनेन च तपःप्रभावं चेच्छतोऽपि मुनेर्न दोषः, यद्वा जिनकल्पिकादिः कल्पं शिष्यं धर्मसहायलिप्सुमपि नेच्छेत्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org