________________
५०७
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पइ भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥१९॥
व्याख्या-भावे सङ्कल्पभावे विरक्तो मनोगुप्तो मनुजो विशोकोऽहर्षश्चैतया प्रागुक्तया दुःखौघपरम्परया नवनवदुःखभङ्ग्या, संसारमध्ये वसन्नपि न लिप्यते, यथा जलमध्ये वसदपि पुष्करिणीपत्रं जलेनेव ॥१९॥
इह पञ्चेन्द्रियार्थेषु सङ्कल्पविकल्पस्य चाऽनर्थहेतुत्वान्नवधालोचः श्रेष्ठः, भोगिनामेकस्यां स्त्रीतनावपि पञ्चविषयाणां दुःसङ्कल्पस्य दुःखश्रेणिदृश्यते एव । अथ निगमयति
एविंदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मण्यस्स रागिणो । ते चेव थोवं पि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥१००॥
व्याख्या-एवमिन्द्रियार्था रूपाद्याः, चः भिन्नक्रमः, मनसोऽर्था विकल्पाश्च, इन्द्रियमनांसि च दुःखस्य हेतवो मनुष्यस्य रागिणो द्वेषिणश्च, विपर्यये गुणमाह-ते चैवेन्द्रियार्था मनोऽर्थाश्च स्तोकमपि कदाचिद् दुःखं वीतरागस्य विगतरागद्वेषस्य न कुर्वन्ति किञ्चिदिति शारीरं मानसं च ॥१००॥
न कश्चन कामभोगेषु सत्सु वीतरागः स्यात्तत्कथमस्य दुःखाभाव उच्यतेन कामभोगा समयं उवेंति, न यावि भोगा विगई उविति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥१०१॥
व्याख्या-न नैव कामभोगा: समतां रागद्वेषाऽभावरूपामुपयान्त्युपगच्छन्ति, हेतुत्वेन, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् , न चापि भोगाः शब्दादयो विकृति क्रोधादिरूपां हेतुत्वेनोपयान्ति, अन्यथा न कश्चिद्रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुरित्याह-यतस्तत्प्रद्वेषी तेषु विषयेषु प्रद्वेषवान् परिग्रहबुद्धिमान् तेष्वेव रागीत्यर्थः, स मोहाद्रागद्वेषान्मोहनीयाद्विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तं ज्ञेयम् ॥१०१॥
किंरूपां विकृतिमुपैतीत्याहकोहं च माणं तहेव मायं, लोभं दुगुंछं अरतिं रतिं च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥१०२॥ व्याख्या-विषयासक्तो जीवः कदाचित् क्रोधं च मानं च तथैव मायां लोभं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org