________________
५०६
श्रीउत्तराध्ययनदीपिकाटीका-२ लभ्रूण वि देवत्तं, उववन्नो देवकिदिवसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं ॥२॥ [ द.वै.अ.५उ.२गा.४७] तत्तो वि से चइत्ताणं, लब्झई एलमूलगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥३॥ [ द.वै.अ.५उ.२गा.४८ ] एयं च दोसं दट्ठणं, नायपुत्तेण भासियं ।
अणुमायं पि मेहावी, मायामोसं विवज्जए ॥४॥ [ द.वै.अ.५उ.२गा.४९ ] एवं तपःस्तैन्यादि चिन्तयन् कुर्वन् भावे विकल्पसङ्कल्पपूरेऽतृप्तो दुःखी अनिश्रो धर्म्यशुक्लहीन आर्तरौद्री स्यात् ॥९६।।
भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवत्तइ जस्स कए ण दुक्खं ॥१७॥
व्याख्या-स्वाभिप्रायभावानुरक्तस्य स्वविमृष्टमेव प्रमाणं ध्यायतो नरस्यैवं कुतो द्रव्यक्षेत्रकालनामपदभवभावादेः सुखं कदापि कस्मिन्नपि काले किञ्चिन्मनागपि भवेत् ? न भवेदेव । तत्र भावानुरागे उपभोगे बहुकालचिन्तनेऽपि क्लेशदुःखं, अतृप्तिशोकभयक्रोधविषयकामज्वरदुष्कर्मबन्धाद्यं स्यात् , यस्य भावचिन्तनस्य कृते, णं वाक्यालङ्कारे दुःखं दधाति मनो जन्तुश्च ॥९७।।
एमेव भावंमि गओ पदोसं, उवेइ दुक्खोहपरंपराओ। पदुट्ठचित्तो य चिणाइ कम्मं, जं से दुहं होइ पुणो विवागो ॥९८॥
व्याख्या-एवमेव रागवत् प्रद्वेषं भावे गतः प्रद्वेषभाववानित्यर्थः, दुःखौघपरम्परा जमाल्यादिवदुपैति, यतः-स श्रीवीरोक्ते भावे द्वेषं गतः किल्बिषिकेषु त्रयोदशसागरायुर्लान्तकेऽस्ति, ततः परं च नदेवभवेभ्यः सेत्स्यति, प्रदुष्टचित्तः सदाऽकुर्वन्नपि कर्म चिनोति तन्दुलमत्स्यवत् , यथा स महामत्स्यस्य मुखासन्ने मत्सीकुक्षौ अन्तमुहूर्त्तमध्ये चैव गर्भे भूत्वा पर्याप्तो भूत्वोत्पद्य सजी प्रौढमत्स्यमुखविशन्मत्स्यलक्षान् दृष्टाऽयं धन्यो यस्यास्ये इयन्तो मत्स्या विशन्ति, इत्यादि ध्यायन् तेषु मत्स्येष्यु पुननिस्सरत्सु रे मूर्ख ! इगऽज्ञोऽयं कथमेतान् मुञ्चति, अहं चेदेतावन्मात्र: स्यां तदैतावता न मुञ्चे, इत्यादि चिन्तयन्नन्तर्मुहूर्ते नैव सप्तम्यायुरुत्कृष्टं बद्ध्वान्तर्मुहूर्तमबाधां भुक्त्वान्तर्मुहूर्त्तमध्य एव मृत्वा सप्ततम्यामुत्पद्यते, अथ यत्तस्य नरस्य दुःखहेतु विपाके, तदिहभवे क्षयादिनाऽन्यभवे रोगादिदुर्गत्यादिना च कण्डरीकवद्भवति ॥९८॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org