SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ५०५ दो कप्प कायसेवी, दो दो दो फरिसरूवसद्देहि । चउरो मणेणुवरिमा, अप्पवियारा अणंतसुहा ॥१॥ [बृ.सं./गा.१६६ ] ॥१३॥ भावे अतित्ते य परिग्गहमि, सत्तोवसत्तो ण उवेइ तुढेिं । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥१४॥ व्याख्या-भावे शुभाशुभाध्यवसायेऽतृप्तः सन् तत्परिग्रहे सक्त उपसक्तश्च गाढासक्तो नोपैति तुष्टिं मनोऽसन्तोषात्तुष्टिं न याति, अतुष्टिदोषेण च दुःखी सन् लोभाविलो लोभाकृष्टः परस्वमदत्तमादत्ते, मनसा वाचा कायेन च, तत्र द्रव्यतः परस्वं, क्षेत्रतो भूम्यादि, कालत आयुःकालादि नामतस्तन्नामादि, पदतस्तत्पदं, भवतस्तद्भवं, भावतः प्रज्ञादि, यथा आशामोदकतृप्तत्वं, स्निग्धमण्डकचिन्तनं ।। स्वप्नराज्यप्रकृष्टत्वं, परवर्णनसोष्ठवं ॥१॥[ ] ॥९४॥ तण्हाभिभूयस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा ण विमुच्चइ से ॥१५॥ व्याख्या-तृष्णाभिभूतस्य मनसोऽदत्तहारिणो भावे महत्वादौ परिग्रहेऽतृप्तस्य लोभदोषाद्रागान्मायामृषा वर्द्धते, यथाहं प्रौढः कविता विद्वान् मान्यो मुनिर्वीतरागो जिन इत्यादिमृषावादाभिलाषी भवति, तत्रापि मृषोक्तावपि स दुःखान्न विमुच्यते गोशालकवत् , स्वदोषाऽपलपने पाण्डुराजामथुरामङ्गहस्तशाटिकाचोक्षतावाचिधनश्रीवत् ॥९५।। मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥१६॥ व्याख्या-मृषायाः पश्चाद्यथा मयाऽमुकोपरि विरूपं नास्ति चिन्तितं, इति मृषोक्तेः पश्चात् , तथैवं पूर्वं, प्रयोगकाले च मृषाभाषायां च दुःखी स्वकृतपश्चात्तापेन जननिन्दया च दुरन्तो दुर्गतिभ्रमकः स्यात् , यतः आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, लभ्यतेऽन्तर्गतं मनः ॥१॥[ ] एवं अदत्तानि समाददन् परगुणान् स्वगुणत्वेनाख्यान् , तवतेणे वयतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वई देवकिव्विसं ॥१॥ [ द.वै.अ.५उ.२गा.४६ ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy