________________
५०४
श्रीउत्तराध्ययनदीपिकाटीका-२ दुःखी भवति, परं तस्मिन् विषये तस्य भावः किञ्चिन्नापराध्यति, तस्य मनस एव दोषोऽस्ति ॥९०॥
एगंतरत्तो रुइरंमि भावे, अतालिसे से कुणई पदोसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥११॥
व्याख्या-एकान्तरक्तोऽत्यन्तमासक्तो रुचिरे भावे, सदा ऋद्धिरससातगौरवाभिलाषुको नरोऽतादृशेऽनृद्धिगौरवादौ चित्तचिन्तिताऽलाभे सति स चिन्तयिता जीवः स्वयमेव प्रद्वेष करोति, किमत्रोहमायातः ? अहमभाग्य एवेत्यादि च दुःखस्य सम्पीडां स बालोऽज्ञानी समुपैति, अत एव रागरहितो मुनी रागद्वेषाभ्यां न लिप्यते ॥९१॥ .
भावाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं से परितावेइ बाले, पीलेइ अत्तद्वगुरू किलिटे ॥१२॥
व्याख्या भावानुगाशानुगतोऽभिप्रायानुकूलेच्छाविवशो जीवः क्वापि चित्तचिन्तायां प्रवर्त्तमानोऽनुपयोगाच्चराऽचरान् जीवान् हिनस्ति, चिन्तया क्व यामीति ध्यायन् यत्र तत्र व्रजन् जीवान् हन्ति, चित्रविविधविकल्पनैस्तान् जीवान् स परितापयति, यथैवं करणतो धातुनिष्पाद्यते, एवं कुर्वतो यदि पुनर्मे लाभ: स्यात् पुत्रः स्यादित्यादि चिन्तयन् पीडयत्येकदेशेन स बालोऽज्ञानी कांश्चिज्जीवान् मनसा वाचा कायेन वा, यथाऽयं दूरे भूयादित्यादिमनोवचनकाययोगैरात्मनोऽर्थमात्रं कार्यमात्रमेव गुरुः श्रेष्ठ, न परपीडेति यस्य स आत्मार्थगुरुः क्लिष्टः कषायवशगश्च सन् ॥१२॥
भावाणुवाएण परिग्गहेणं, उप्पायणे रक्खणसंनियोगे । वए वियोगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ॥१३॥
व्याख्या-भाव एव परिग्रहो मीलनचिन्तात्मकस्तेन, उत्पादने, कथं मे मिलिष्यत्ययं सञ्चयः ? तत्कृतेऽहमिति बुद्धिमुपार्जयामि, यद्वाऽनिद्रस्य निद्रां कथमर्जयामि? एवं बलं सुखं राज्यं सुतादि मृषाभाषां हास्यादि प्रज्ञाप्रतिभामोक्षादि वा कथमहमुपार्जयामीत्युत्पादने, निद्राारोग्यसुबुद्धित्वादिभावानां रक्षणे, सन्नियोगे परेषां कुबुद्ध्यादिभावे, व्यये निद्रास्मृत्यादिव्यये, उत्तरदातृत्वप्रज्ञास्फुर्तिमुख्यभावानां वियोगे च कुतः सुखं ? 'से' तस्य चिन्तयितुः, सम्भोगकालेऽपि चिन्ताकरणकालेऽप्यतृप्तिलाभे तृप्त्यभावे सत् कुघटभञ्जकवन्न सुखं, तथा देवेषु -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org