________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
५०३ मणस्स भावं गहणं वयंति, रागस्स हेउं समणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो उ जो तेसु स वीयरागो ॥८७॥
व्याख्या-मनसो ग्रहणं ग्राह्यं भावमाशयं वदन्ति जिनाः तं मनोज्ञमाशयं रागहेतुमाहुः, यतो जीवस्य स्वोत्कर्षद्धिस्त्र्यादिचिन्ता मनोज्ञा स्यात् , एवं यद्यस्य शुभमशुभं वाऽभीष्टं, तस्य च यच्चिन्तनं तत्तस्य रागहेतु, अमनोज्ञं भावं च द्वेषहेतुकमाहुर्जिनाः, यतो रौद्रध्यायी निन्दको वा परयुत्कर्षधर्मादीन् द्वेषधिया चिन्तयति, ततो यावत् शुभाशुभचिन्तनं तावद्रागद्वेषदुःखे एव ततस्तयोः शुभाऽशुभयोर्यः समस्तत्राऽप्रवर्तको धर्मध्यानी स वीतरागः सुखी च ।।८७।।
भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति । तं रागहेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥८८॥
व्याख्या-भावस्य शुभाशुभचिन्तनस्य मनो ग्रहणं ग्राहकं वदन्ति, मनसश्च ग्राह्यं भावं वदन्ति, तन्मनस्तु मनोज्ञं प्रमादप्रवर्तितं रागहेतुमाहुः, अमनोज्ञं कुभावपरं च निन्दाद्यैर्वृषहेतुमाहुः, तथा स्वप्नकामदशादिषु भावागतो रूपरसादिरपि भाव उच्यते, यतस्तत्र मनस एव सर्वतो व्यापारात् ॥८८॥
भावेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिए गए व ॥८९॥
व्याख्या-यो भावेषु विषयाद्याशयेषु तीब्रां गृद्धिमुपैति सोऽकालिकं विनाशमुपैति, रागाध्यवसाने स्त्रीत्वादिवत् , भयाध्यवसाने सोमिलादिवत् , स्नेहाध्यवसाने मातृपुत्रवत् , तथा रागातुरः कामगुणेषु सुशब्दरूपादिषु गृद्धः करेणुमार्गेण हस्तिन्या निजाध्वनाऽपहृतः कृष्टो गज इव । इभो मदान्धो दूरात् करिणीदर्शनात्तद्रूपादिमोहितस्तन्मार्गानुगामित्वेन गृह्यते । सङ्ग्रामादिषु प्राविश्यते, विनाश्यते च, अत्र चक्षुरिन्द्रियवशादेव गजस्य प्रवृत्तावपि मनः प्राधान्यज्ञप्त्यै भावस्य दृष्टान्तोक्तिः ॥८९॥
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, ण किंचि भावं अवरज्झइ से ॥१०॥
व्याख्या-यश्चापि मनुष्यो यस्मिन् क्षणेऽशुभे भावे तीव्र द्वेषं समुपैति, तस्मिन्नेव क्षणे स जन्तुर्दुःखमुपैति, सर्वकार्यकरणहानेः, दुर्दान्तत्वदोषेण अवशचित्तत्वेन स्वकेन
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org