________________
५०२
श्रीउत्तराध्ययनदीपिकाटीका-२ तण्हाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा ण विमुच्चइ से ॥८२॥
व्याख्या-तृष्णाभिभूतस्य मनुष्यस्य पुनरदत्तहारिणश्च, पुनः स्पर्शसम्बन्धिनि परिग्रहे अतृप्तस्य च परस्त्र्यादिभोगलोलुपस्य लोभदोषान्मायामृषा वर्द्धते, तत्रापि मायामृषावादेऽपि स दुःखान्न विमुच्यतेऽविश्वास दुःकार्याद्यैः ॥८२॥
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥८३॥
व्याख्या-मायामृषावादी पुमान् मृषावचसः पश्चात् पुरतश्च पुनः प्रयोगकालेऽपि भाषणप्रस्तावेऽपि दुरन्तोऽत्यन्तं दुःखी भवति, एवं चादत्तानि परस्त्रीवस्त्रादीनि समाददानः स्पर्शेऽतृप्तः सन् दुःखी भवति, अनिश्रः पुण्यहीनः ॥८३॥
फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवत्तइ जस्स कए ण दुक्खं ॥८४॥ .
व्याख्या-एवमनन्तरोक्तप्रकारेण स्पर्शानुरक्तस्य नरस्य कुतः कदाचित् किञ्चिदपि सुखं भवेत् ? नैव भवेदिति । तत्र स्पर्शोपभोगेऽपि क्लेशदुःखं तृप्त्यभावरोगोत्पत्तिभ्यां भवति, यस्य कृते जन्तुर्दुःखं निवर्त्तयत्युत्पादयति, कामवशस्य सदा स्त्रीध्यातृत्वात् ।।८४॥
एमेव फासंमि गओ पदोसं, उवेइ दुक्खोघपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥८५॥
व्याख्या-एवमेव यथा मनोज्ञे स्पर्श रागवान् , तथाऽमनोज्ञे स्पर्शे गतः सन् स प्रद्वेषमुपैति, ततो दुःखौघपरम्परया च प्रदुष्टचित्तः सन् निन्दादिना तत्कर्म चिनोति यत्कर्म पुनस्तस्य विपाकावसरे दुःखहेतुर्भवति, मत्कुणस्पर्शादौ जीवहिंसादिकारकत्वात् ॥८५।।
फासे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण । न लिप्पइ भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥८६॥
व्याख्या-स्पर्श विरक्तो मनुष्यो विशोकः सन् एतया दुःखौघपरम्परया संसारमध्ये वसन्नपि भरतादिवन्न लिप्यते, किमिव, जले वसत् पुष्करिणीपत्रमिव जलेनेति ॥८६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org