________________
५०१
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् प्राप्नोति, परं नाऽमनोज्ञः स्पर्शस्तस्य किञ्चिदप्यपराध्यति, तस्य स्पर्शनेन्द्रियस्यैव स दोषोऽस्ति । ये च कटुकरसाद्या इन्द्रियोपघातकाः स्युस्तै त्राधिकारः, किन्तु जीवस्य शुभाऽशुभरसादिषु देहार्त्यनुत्पादकेषु ये रत्यरती स्तस्तैरेवेहाधिकारः, तथा ये शब्दाद्या इन्द्रियाणि पीडयन्ति तानपि सहेत न तु द्विष्यात् ।।७७॥
एगंतरत्तो रुइमि फासे, अतालिसे से कुणइ पदोसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥७८॥
व्याख्या-यो मनुष्यो रुचिरे स्पर्शे एकान्तरक्तो भवति सोऽतादृशेऽसुन्दरे स्पर्श प्रद्वेषं करोति, स च बालोऽज्ञानी दुःखस्य सम्पीडामुपैति, तेन कारणेन विरागी मुनिः स्पर्शेन न लिप्यते ।।७८।।
फासाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिटे ॥७९॥
व्याख्या स्पर्शानुगाशानुगतो जीवोऽनेकरूपान् सचराचरजीवान् हिनस्ति, स्त्रीभोगादौ पुष्पस्रग्भूषादौ च, तथैव चित्रैः प्रकारैस्तापनस्नानाद्यैः स बालोऽज्ञानी जीवान् परितापयति, कांश्चित् पीडयति च तूलिकागद्दिकाकदलीदलादिषु । कीदृशः सः ? आत्मार्थगुरुः केवलं स्वार्थैकपरायणो रागाद्युपहतचित्तश्च ॥७९॥
फासाणुरागेण परिग्गहेणं, उप्पायणे रक्खणसंनिओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे ॥८०॥
व्याख्या-स्पर्शानुरागेण स्पर्शपरिग्रहेण स्पर्शासक्तस्य जीवस्य स्पर्शानामुत्पादने स्त्रीवाहनसुखासनादीनां, तथैव रक्षणे सन्नियोगे स्वपरार्थं व्यापारणे च, व्यये न्यूनत्वे, वियोगे विनाशे च तस्य जीवस्य कुतः सुखं भवेत् ? न कुतोऽपीत्यर्थः, च पुनः सम्भोगकालेऽपि तदतृप्तिलाभरूपं दुःखमेव ।।८०॥
फासे अतित्ते य परिग्गहंमि, सत्तोवसत्तो ण उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥८१॥
व्याख्या-स्पर्शविषये चाऽतृप्तः सन् पुमान् तत्परिग्रहे सक्त उपसक्तश्च भूत्वापि तुष्टिं न प्राप्नोति, अतुष्टिदोषेण च दुःखीभूय लोभाविलो लोभेन मलीनमानसोऽसौ परस्य वस्तु स्त्रीवस्त्राद्यादत्ते ॥८१।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org