________________
५००
श्रीउत्तराध्ययनदीपिकाटीका-२ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पए भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥७३॥
व्याख्या-रसे विरक्तो मनुजो विशोकः सन् भवमध्ये वसन्नपि एतया पूर्वोक्तया दुःखौघपरम्परया न लिप्यते किमिव ? जलमध्ये स्थितमपि पुष्करिणीपत्रं जलेन वेति ॥७३॥
अथ स्पर्शनेन्द्रियमाश्रित्याहकायस्स फासं गहणं वयंति, तं रागहेडं समणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअराओ ॥७४॥
व्याख्या-कायस्य सर्वशरीरस्य स्पर्शनेन्द्रियस्य स्पर्श ग्रहणं वदन्ति जिनाः, तत्र तं मनोज्ञं स्पर्श रागहेतुमाहुः, अमनोज्ञं च द्वेषहेतुमाहुः, तत्रापि यः समः स वीतरागो वीतद्वेषश्च, न तावत् कायं स्पर्शे प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने समतां कुर्यादिति ॥७४||
ननु चेत् स्पर्श एव रागद्वेषहेतुस्तहि स्पर्शनिन्दैवास्तु, किं कायनिग्रहेणेत्युच्यतेफासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति । तं रागहेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥७५॥
व्याख्या-जिनाः स्पर्शस्य शीतोष्णादेर्ग्रहणं ग्राहकं कायं वदन्ति, तथा कायस्य च स्पर्शनेन्द्रियस्य ग्राह्यं स्पर्श वदन्ति, तत्र मनोज्ञं तं रागहेतुकमाहुः, अमनोज्ञं च तं द्वेषहेतुकमाहुः ॥५॥
फासेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे सीयजलावसत्ते गाहग्गहिए महिसेव रन्ने ॥७६॥
व्याख्या-यो मनुष्यः स्पर्शेषु स्पर्शनेन्द्रियविषयेषु स्त्र्यादिषु तीव्रामुत्कटां गुद्धिमुपैति स रागातुरः सन्नकालिकं विनाशं प्राप्नोति, यथा शीतलजलावसक्तो महिषोऽरण्ये पल्वलादौ पतितो ग्राहैर्मकरादिजलचरजीवविशेषैर्गृहीतो म्रियते, वसतिप्रदेशे तु केनापि कदाचिन्मोच्यतेऽपि ॥७६।।
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उवेइ दुक्खं । दुईतदोसेण सएण जंतू, ण किंचि फासं अवरज्झई से ॥७७॥
व्याख्या-यश्चापि जन्तुर्जीवो यस्मिन् क्षणे अमनोज्ञे स्पर्शे जाते सति तीव्र द्वेष उपैति, तस्मिन्नैव क्षणे स जन्तुः स्वकीयेन दुर्दान्तदोषेण अवश्यदेहत्वदोषेण दुःखं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org