________________
४९९
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
रसे अतित्ते य परिग्गहमि, सत्तोवसत्तो न उवेइ तुढेि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययइ अदत्तं ॥६८॥
व्याख्या-रसे अतृप्तो जीवस्तस्य परिग्रहे सञ्चये सक्तो भवति, ततश्च क्रमेणोपसक्तोऽपि भवति, एवं च स तुष्टिं नोपैति, अतुष्टिदोषेण च स पुमान् दुःखी लोभाविलो लोभकलुषश्च सन् परस्याऽदत्तं फलघृतनवनीताद्यादत्ते ॥६८॥
तण्हाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा ण विमुच्चइ से ॥६९॥
व्याख्या-तृष्णभिभूतस्य अदत्तहारिणो रसे रसविषये परिग्रहेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्द्धते, तत्रापि मायामृषायामपि सोऽसन्तोषी दुःखान्न विमुच्यते ॥६९||
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥७०॥
व्याख्या-मृषावचनस्य पश्चात् पुरतश्च प्रयोगकाले च स दुरन्तो दुःखी भवति, एवं चाऽमुना प्रकारेण रसेऽतृप्तोऽदत्तानि समाचरन् चौर्याणि कुर्वन् रसे चाऽतृप्तो जीवाऽजीवयतनेहपरभवनिश्रारहितः सन् दुःखी भवति ॥७०।।
रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलिस्सदुक्खं, निवत्तइ जस्स कए ण दुक्खं ॥७१॥
व्याख्या-एवमन्तरोक्तप्रकारेण रसानुरक्तस्य जन्तोः कुतः कदापि किञ्चित् सुखं भवति ? कुतोऽपि न भवतीत्यर्थः, पुनस्तत्र रसोपभोगसमयेऽपि अतृप्तिलाभरूपं रोगोत्पत्तेश्च क्लेशदुःखं निवर्त्तयत्युत्पादयति, यस्योपभोगस्य कृते दुःखं धत्ते जन्तुः, कदाहं तदन्नादिकं लप्स्येऽहमिति ।।७१।।
एमेव रसंमि गओ पदोसं, उवेइ दुक्खोघपरंपराओ । पदुद्दचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥७२॥
व्याख्या-एवमेव रसे गृद्धो जीवोऽमनोज्ञरसलाभे सति प्रद्वेषं गच्छति, प्रदुष्टचित्तश्च सन् दुःक्खौघपरम्परया तत्कर्म चिनोति, येन कर्मणा पुनस्तस्य विपाके दुःखमेव भवति, कटुतुम्बदात्रीनागश्रीवत् , यथा तया धर्मरुचिमुनये कटुतुम्बं स्वादेनाऽनर्हमिति ज्ञात्वा दत्वा चानन्तभवोऽर्जितः, अनन्ताद्धया च सा द्रौपदी जाता ॥७२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org