________________
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या - रसेषु यो जनो गृद्धिमुपैति तीव्रां, सोऽकालिकमकस्माद्विनाशं प्राप्नोति कुपथ्याशिवत्, रागातुरो, बडिशं प्रान्तन्यस्तामिषो लोहकीलस्तेन विभिन्नकायो यथा मत्स्य आमिषभोगगृद्धो म्रियते । उक्तञ्च–
सचित्ताहारेणं, मच्छा गच्छंति सत्तमीं पुहवीं ।
४९८
सचित्तो आहारो, न खमो मणसा वि पत्थेओ ॥ १ ॥ [ ] || ६३ ॥ जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुद्दंतदोसेण सएण जंतू, रसं न किंची अवरज्झइ से ॥६४॥ व्याख्या-यश्चापि जन्तुरमनोज्ञरसास्वादनो यस्मिन्नेव क्षणे तीव्रं द्वेषमुपैति, तस्मिन्नेव क्षणे स स्वकीयेन दुर्दान्तरसनेन्द्रियदोषेण दुखमुपैति परं तस्य तदवस्थायां रसः सामान्यरसः किञ्चिन्नापराध्यति, किन्तु तस्य रसनेन्द्रियस्यैव स दोष:, अत्र रसशब्देन कुरूपकुरसाद्या एव ज्ञेयाः, न विषाणि यतस्तैर्भव्यैरभव्यैश्च रसाद्यैः कष्टमेव ॥ ६४॥
एगंतरत्तो रुइरे रसंमि, अतालिसे से कुणइ पदोसं ।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ ६५ ॥ व्याख्या - यो जीवो रुचिरे मनोज्ञे रसे मधुरादावेकान्तरक्तोऽत्यन्तमासक्तो भवति, स बालोऽज्ञानी जीवोऽतादृशेऽमनोज्ञे रसे प्रद्वेषं करोति, ततश्च स दुःखस्य सम्पीडामुपैति प्राप्नोति, तेन कारणेन विरागी मुनिस्तेन रसेन न लिप्यते आसतो न भवतीति ॥ ६५ ॥ रसाणुयासाणुगए य जीवे, चराचरे हिंसइ गरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ॥ ६६ ॥
व्याख्या—रसानुगाशानुगतो मधुरादिरसास्वादाभिलाषयुतो बालोऽज्ञानी जीवो विविधैरुपायैश्छेदनपाटनत्वगपनयनाद्यैरनेकरूपान् चराऽचरादिजीवान् हिनस्ति परितापयति पीडयति चाम्रादिवत् कीदृशः स बालः ? केवलमात्मार्थमेव परायणो रागद्युपहतमानसश्च ॥६६ || रसाणुराएण परिग्गहेण, उप्पायणे रक्खणसंनियोगे ।
ar वियोगे य कहिं सुहं से, संभोगकाले य अतितलाभे ॥६७॥ व्याख्या—रसानुरक्तस्य जीवस्य रसानुरागेण परिग्रहेण सरसवस्तुमूर्छया, तेषामुत्पादने उद्यानिकादिकरणे, रक्षणे म्लान्यादिभ्यः, सन्नियोगे स्वस्याऽन्येषां च व्यापारणे, व्यये न्यूनत्वे, वियोगे रसाऽप्राप्तौ च कुतस्तस्य जीवस्य सुखं ? केवलं क्लेश एव । तथैव सम्भोगकालेऽपि तस्य रसस्य परिभोगाऽवसरेऽपि अतृप्तिलाभरूपं दुःखमेवेति ॥६७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org