________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
४९७ व्याख्या एवं पूर्वोक्तप्रकारेण गन्धानुरक्तस्य नरस्य कुतः कदाचित्किञ्चिदपि सुखं भवेत् ? अपि तु न भवेदेव । तत्रोपभोगेऽपि क्लेशदुःखमतृप्तिरूपं स्यात् , यस्योपभोगस्य कृते दुःखं स्वस्य गन्धप्राप्त्यादिना निवर्त्तयति ॥५८॥
एमेव गंधमि गओ पदोसं, उवेइ दुक्खोहपरंपराओ। पदुद्रुचित्तो य चिणाइ कम्मं, जं से दुहं होइ पुणो विवागे ॥५९॥
व्याख्या-एवमेव यथा गन्धानुरक्तो नरो दुःखौघपरम्परां प्राप्नोति, तथैव गन्धे दुष्टगन्धे प्रद्वेषं गतो दुःखौघपरम्परा वमनाद्या उपैति, प्रदुष्टचित्तश्च सन् दुष्टं कर्म चिनोति, यत्कर्म तस्य पुरुषस्य विपाके विपाकावसरे पुनर्दुःखं निन्दोपद्रवादिभिर्दुःखकारि भवति ।।५९॥
गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥६०॥
व्याख्या-गन्धे विरक्तो गन्धाद्विरागी मनुज एतया पूर्वोक्तदुःखौधपरम्परया न लिप्यते न स्पृश्यते संसारमध्ये वसन्नपि, किमिव ? जले वसत् पुष्करिणीपत्रमिव पद्मिनीपत्रमिव जलेनेति ॥६०॥
अत रसनेन्द्रियमाश्रित्य दूषणमाहजिहाए रसं गहणं वयंति, तं रागहेडं तु समणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीअराओ ॥६१॥
व्याख्या-रस्यते आस्वाद्यते इति रसो मधुरादिः, तं रसं जिना जिह्वाया ग्रहणं विषयं वदन्ति, तं मनोज्ञं रसं च रागहेतुमाहुः, अमनोज्ञं च तमेव दोषहेतुमाहुः, यश्च तेषु रसेषु समस्तुल्यवृत्तिः स वीतराग उच्यते ॥६१॥
रसस्स जीहं गहणं वयंति, जिहाए रसं गहणं वयंति । रागस्स हेओ समणुण्णमाहु, दोसस्स हेओ अमणुण्णमाहु ॥६२॥
व्याख्या-रसस्य जिह्वां ग्राहिकां वदन्ति, जीह्वाया रसं च ग्राह्यं वदन्ति, पुनर्मनोज्ञां प्रसन्नां जिह्वां रागस्य हेतुमाहुः, अप्रसन्नां च दोषस्य हेतुमाहुः ॥६२।।
रसस्स जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे बडिसविभिन्नकाये, मच्छे जहा आमिसभोगगिद्धे ॥६३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org