SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ४९६ श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-बालोऽज्ञानी जीवो गन्धानुगाशानुगतः कर्पूरकस्तूरिकादिमनोज्ञगन्धेषु लोलुपः सन् गत्यागत्यादौ अनेकरूपान् सचराचरजीवान् हिनस्ति, तथा चित्रविविधशस्त्राद्युपायैरातपदानैश्च परितापयति पीडयति च मार्जारादीन् , कीदृशः सः ? आत्मार्थगुरुः स्वाथैकपरायणो रागाद्युपहतचित्तश्च ॥५३।। गंधाणुरागेण परिग्गहेण, उप्पायणे रक्खणसंनिओगे । वए वियोगे य कहिं सुहं से, संभोगकाले य अतित्तलाभे ॥५४॥ व्याख्या-गन्धानुरागेण गन्धविषयपरिग्रहेण उत्पादने तदुपार्जने, रक्षणे गन्धद्रव्याणां, सन्नियोगे परेभ्योऽर्पणे, व्यये तस्य न्यूनतायां, वियोगेऽलाभे कुतस्तस्य जनस्य सुखं ? तथैव सम्भोगकाले गन्धविषयोपभोगकाले चाऽतृप्तिलाभे सति तस्य सुखं नैव भवति ॥५४॥ गंधे अतित्ते य परिग्गहमि, सत्तोवसत्तो ण उवेइ तुढेि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययइ अदत्तं ॥५५॥ व्याख्या-गन्धे तत्परिग्रहे मूर्छायां चाऽतृप्तः सक्तः सामान्येनोपसक्तश्च बाढं नोपैति तुष्टिं, अतुष्टिदोषेण च दुःखी सन् लोभाकृष्टः परस्याऽदत्तं गन्धद्रव्यमादत्ते ॥५५॥ तण्हाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे य । मायामसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से ॥५६॥ व्याख्या-तृष्णाभिभूतस्य अदत्तग्राहिणश्च गन्धविषये परिग्रहे चाऽतृप्तस्य लोभदोषाद्रागभावान्मायामृषा वर्द्धते, तत्रापि एवं मृषाकथनेऽपि स दुःखान्न विमुच्यते, रक्षेः कोऽपि मां गन्धहारिणं चौरं वेत्तीति ॥५६॥ मोसस्स पच्छा य पुरत्थओ य, पओयकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥५७॥ व्याख्या-मृषायाः पश्चात् पुरस्ताच्च प्रयोगकाले च मृषाभाषाप्रस्तावे च रक्षेः कूटं मे कोऽपि वेत्तीति सोऽत्यन्तं दुःखी सन् , एवमदत्तानि परकीयानि गन्धान्याददानोऽतृप्तः सन् अनिश्रः सहायरहितो दुःख्येव भवति ॥५७॥ गंधाणुरत्तस्स नरस्स एवं, कुत्तो सुहं हुज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए ण दुक्खं ॥५८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy